________________
सिद्धान्तलक्षणतचालोकः ।
दकत्वोभयाभावस्स एव हेत्वाधिकरणत्वेन विवक्षित इति नाव्याप्तिः मन्वत्र द्रव्यं गुणकर्मान्यस्वे सति सत्स्वादित्यत्राव्याशिगुणकर्मान्यत्ववैशिष्टयसत्तात्वगतद्वित्वे स्वावच्छिन्नाश्रयाधिकरणगुणनिष्टाधिकरणतावच्छेदकतात्वावच्छिन्न पर्याप्त्यनुयोगितानवच्छेदकत्वसत्त्वे पि तादृशावच्छेदकत्वविरहेणोभयाभावसस्त्रेन गुणस्यापि हेत्वाधिकरणत्वात् गुणकमन्यत्वविशिष्टसत्तावानितिप्रतीतो घरवृत्तित्ववि शिष्टविशिष्टसत्तावानित्यादिप्रतीत्यनुरोधेन क्लृप्तघटवृत्तित्यावेशि ष्टविशिष्टसत्तात्वाद्यवच्छिन्नाधिकरणताव्यक्तीनामेव विशिष्टसत्तात्वा.
६६
वच्छिन्नाधिकरणतांत्वन विषयत्वाद्विशिष्टसत्तात्वमात्रावच्छिन्नाधिकरणत्वे मानाभावादिति यदत्र घटवृत्तित्वविशिष्टविशिष्टसत्तावानि. तिप्रतीतौ घटवृत्तित्वविशिष्टसत्तावानितिप्रतत्यिनुरोधेन क्लृप्तघटवृत्तित्वविशिष्टसत्तात्वावच्छिन्नाधिकरणतैव विषयः तस्याश्च गुणकमन्यत्वविशिष्टसत्तात्वावच्छिन्नाधिकरणत्वावगाहिन्यान्न विषयत्वसम्भवः नत्रोक्तप्रतीतिर्भिरुवकांशे भासमान गुणकर्मान्यत्ववैौरी
धूयेऽप्यवच्छेदकत्वावगाहिनीति वित्तयधर्म्मावच्छिन्नाधिकरणतत्वस्योक्ताधिकरणतायाम्बिरहेण न तस्यास्तस्प्रतीतिविषयत्वसंभव इति वाच्यं लाघवेनापत्त्यादिविरहेण चोक्तप्रतीतेर्गुणकर्मान्यत्वेऽवच्छेदकत्वावगाहित्याकल्पनादित्युक्तविशिष्टसत्त्वहेतुके नाव्याप्तिस्सम्भवत्यपि तु द्रव्यं घटवृत्ति सत्त्वादित्यत्राव्याप्तिः गुणस्य घटवृत्तित्वसत्तात्वगतद्वित्वावच्छिन्नाश्रयाधिकरणत्वात् तद्वित्वस्याधिकरणतावच्छेदकतात्वावच्छिन्नपर्याप्त्यनुयोगितानवच्छेदकत्वाच्च घटवृत्ति
सत्तावानितिप्रतीतो तदूर्घटवृत्तिसत्तावानित्यादिप्रतीत्यनुरोधेन
क्लृप्ततदूर्घटवृत्तिसत्तात्वावच्छिन्नाधिकरणत्वादेरेव
घटवृत्तिसत्ता.
स्वावच्छिन्नाधिकरणतात्वेन विषयत्वादिति प्राज्ञजातीयैरुच्यते त दग्राह्यमसत्कल्पतायास्तस्याग्रे स्फुटत्वादिति चेन्न स्वावच्छिन्नानुयो· गिताकपतिकावच्छेदकता निरुपकताकाधिकरणत्वस्य विवक्षितत्वात् तादृशस्य तद्घदवृत्तिसत्तात्वाद्यवच्छिन्नाधिकरणत्वस्य गुणे विरहात नच द्रव्यमेव नतु गुणादिरित्यादिग्रन्थे गुणस्याधिकरणत्वविरहप्रयोजकतया विशिष्टत्तात्वे ताहशावच्छेदकत्वद्वय स त्वप्रदर्शनमसङ्गतं गुणस्य प्रागुक्तस्वाश्रयाधिररणत्वविरहादितिवाच्यं तद्ग्रन्थस्य यथाश्रुताभिप्रायकत्वात् यतोविशिष्टसत्तात्वं गुणनिष्ठाधि
" Aho Shrutgyanam"