________________
सिद्धान्तलक्षणतवालोकः ।
स्याप्युक्त सम्बन्धितावच्छेदकत्वादिति वाच्यं साध्यतावच्छेदकताव्यापकाच्छेदकताकत्वघदितत्रितयाभावस्य प्रतियोगिता विशेषणत्वे दोषाभावादिति वदन्ति तेऽनाकलयन्तो लाघवगौरवादिकम्पूर्वपक्षरसिका इति ध्येयम् ॥ अथ साध्यतावच्छेदकावच्छिन्नाधिकरणत्वप्रतियोगितावच्छेदकावच्छिन्नाधिकरणत्वोमयाभाव एव स्वधिकरणे वक्ष्यमाणप्रतियोग्यनधिकरणत्वशब्देन विवक्षपीवः प्रतियोगितावच्छेदकावच्छिन्नत्वं च न पर्य्याप्तिघटित्तन्तथा च महानसी यवह्रयभावप्रतियोगितावच्छेदकवहित्वावच्छिन्नाधिकरणत्वस्य हेत्वाधिकणमात्रे सत्त्वान्नाव्याप्तिः प्रतियोगितावच्छेदकनिष्ठनिरूपकतावच्छेदकतावच्छेदकतायां साध्यतावच्छेदकतानिरुपितसंसतावच्छेदकधर्मावच्छिन्न संसर्गतानिरूपितत्वमेव वाच्यन्तथा सति विषयितया रूपत्ववदभावमादायापि नाव्याप्तिः संसर्गतावच्छेदकपर्याप्त्यनिवेशाद्वह्नित्वप्रतियोगिकसमवायेन वह्नित्वविशिष्टसाध्य के महानसीयवह्निमान्तज्ज्ञानत्वादित्यत्र वक्ष्यमाणरीत्या वारणीयस्य महान सीयाभाषवह्न्यभावावादायाच्या सिप्रसङ्गस्य नाव - काशः प्रतियोगितावच्छेदक महान सीयत्वाद्यवच्छिन्नमहानसीयवह्नि त्वावच्छिन्ननिरूपकताकाधिकरणत्वस्य हेत्वधिकरणे सत्त्वात् प्रतियोगितावच्छेदकावछिन्नत्वस्य स्वव्यापकत्वसम्बन्धेन प्रतियोगिताव च्छदकतावृत्यषच्छेदकताकत्वार्थकत्वे वह्निमान्तज्ज्ञानत्वादित्यत्र
चाव्याप्तिः
महिश्वविशिष्टामानं महित्वविशिष्टसाध्यकतज्ज्ञानत्वे वद्यभावं चादावापि नाव्याव्यवकाश इति वेदत्यन्ताभावस्य त्रितयप्रतियोगिकत्वमते गोवान् कालत्वादित्यत्र लक्षणघटकत्वेन सम्प्रतिपन्नस्य सृष्टिकालवृत्तित्वविशिष्टघटत्वाद्यभावस्य प्रतियोगिवैयधिकरण्यासम्भवे नाव्याप्तिरतः प्रतियोगितायामेवोभयामावनिवेशो युक्तः नचोक्ताव्याझेरभावाघटितकल्पेऽसम्भवेन तत्र तन्निवेशो नोचित इति वाच्यं सद्विशेषणस्याभावघटितकल्पाभिप्रायकत्वे ग्रन्थसामञ्जस्यादिति पतेन स्वावच्छिन्नत्वस्वेतरावच्छिन्नत्वोभयसन्बन्धेन धर्म्मविशिष्टान्यत्वस्य महानसयिवह्नयादिसाध्यकव्यभिचारिण्यतिप्रसङ्गापादकस्वेsपि साध्यवदृत्यभावीयत्वधर्म्मविशिष्टत्वोभयाभावस्य निवेशे न कोsपि दोषः वेशिष्ट्यं च स्वावच्छिन्नत्वस्वेतरावच्छिन्न चोभयसम्बन्धेनेत्यपि निरस्तम् सृष्टिकालवृत्तित्वविशिष्टघटत्वाभावप्रतियो
" Aho Shrutgyanam"
३३