________________
सिद्धान्तलक्षणतत्वालोकः । करण्यासम्भवादितिवाच्यम् तत्रापि परम्पराधिशेषसम्बन्धेन लाघवेन प्रमात्वादेरेवावच्छेदकत्वादिति एवं संसर्गीयप्रतियोगितायान्द्वि. त्वावच्छिन्नत्वास्वीकारे विशेषरूपेणसंसर्गत्वास्वीकारे च सिद्धान्ते प्रतियोगिताधर्मिमकोभयाभावघटितकल्पस्य निर्दष्टस्य संभवः अत्र च कल्पे न तत्संभवः तथाहि स्वप्रतियोगितावच्छेदकसम्बन्धन प्रति. योगिब्यधिकरणाभावभिन्नाभावीयप्रतियोगितासामान्ये साध्यतावच्छेदकसम्बन्धातिरिक्तसम्बन्धावच्छिन्नत्व साध्यतावच्छेदकातिरिक्तधम्र्मावच्छिन्नत्वोभयाभावः साध्यतावच्छेदसम्बन्धानवच्छिन्नत्व. सध्यतावच्छेदकावच्छिन्नत्वाभेयाभावः साध्यतावच्छेदकसम्बन्धाधच्छिनत्वसाध्यतावच्छदकानवच्छिन्नत्वोभयाभावोवा निवेश्यः तत्र नाद्यः कालिकसम्बन्धावच्छिन्नघटाभावप्रतियोगितायामुमयस्यैवसवन वह्निमान्धूमादित्यादावब्याप्त्यापत्तेःन द्वितीयः कालिकसम्बन्धा वच्छिन्नवह्यभावप्रतियोगितायामुभयस्यैव सत्त्वात् नान्त्यः संयोग सम्बन्धावच्छिनद्रव्याभावीयप्रतियोगितायामुभयसत्वात् नापि य. क्रिश्चित्प्रतियोगितायां प्राथमिकोभयाभावः संयोगसम्न्धावच्छिन्न. द्रव्याभावीयप्रतियोगितायामुभयाभाबसत्त्वेन धूमवाढेरित्यादावतिव्याप्त्यापत्ते रिति अत एवास्तु गुरुधर्मावच्छिन्नसाध्यकाव्याप्तिवार. णाय प्रतियोगिब्यधिकरणहेतुसमानाविकरणाभावप्रतियोगित्वावृत्ति साध्यतावच्छेदकावच्छिन्नसामानाधिकरण्यस्याव्याप्तित्वं वृत्तिता च स्वविशिष्ठसम्बन्धिनिष्ठाभावप्रतियोगितानवच्छेदकावच्छिन्नप्रतियोगितातादात्म्येन ग्राह्या व्यभिचारिणि तु साध्यतावच्छेदकस्य तादृशसाध्याभावप्रतियोगितावृत्तित्वस्यैव सत्त्वेन लक्षणसंभव इति निरस्तम् एवमत्रराद्धान्तापक्षाया च यमवविशेषमालोजयामोयदत्रोक्त परम्गरायागुरुभूतायाः संशर्गत्वंसिद्धान्ते च कल्पे संसर्गविधयाऽ नुगमे लघुभूतस्य तादृशानवच्छेदकधर्मावच्छिन्नत्वमात्रस्य संसर्ग स्वमिति एतेन प्रकारतायां निविष्टस्य हंतुमनिष्ठाभावीयप्रतियोगिवा वृत्तियद्धर्मविशिष्ठसम्बन्धिनिष्ठाभावप्रतियोगितानवच्छेदकावच्छिन्न प्रतियोगितातादात्म्यन्तद्धर्मावच्छिन्नसमानाधिकरण्यस्थापि व्याप्तित्वं निरस्तम् । सिद्धान्तकल्पापेक्षयाऽनतिविशेषात् एवं सिद्धान्ते तादृशप्रतियोगितासामान्यनिष्ठस्य गुरुधर्मसाध्यकाव्याप्तिवारकोभ. याभावस्थात्र तादृशप्रतियोगित्वावृत्तित्वस्य च तादृशोभयनिष्ठस्यैक
"Aho Shrutgyanam"