________________
सिद्धान्तलक्षणतत्वालोकः ।
१२५
तया तदवच्छेदकवह्नयभावनिष्ठप्रकारताविशिष्टवृत्तित्वमादायाव्या प्तितावस्थ्यमितिवाच्यम् नमानिरुपितत्वस्य प्रकारताविशेषणत्वात् यदिचोक्तदोषवारणायसामानाधिकरण्यंविहाय स्वावच्छेदकध
विच्छिन्नत्वस्यसंसर्गत्वमुच्यते । तदाप्रतियोगिताविशिष्टप्रकारत्वा. वच्छिन्नत्वमेववाच्य भतु व्यापकत्व म्प्रयोजनाभावात् मच साध्यताबच्छेदकसम्बन्धावच्छिन्नप्रकारत्वावच्छिन्नत्वमात्रम्बाच्यामिति वाव्यम् । स्वरूपणवह्नयाधिकरणत्वसाध्यके वह्नयाधिकरणत्वाभावस्य कालिकेनयोऽभावः स्वरूपेणतद्वानिति बुद्धि प्रति कालिकेन वह्नय. धिकरणत्वाभाववानितिबुद्धेः प्रतिबन्धकतयाऽव्याप्तःप्रतियोगितामा मानाधिकरण्यप्रवेशेन तद्वारणसम्भवे ऽप्युक्तयुक्त्याप्रमेयस्य घटा. धनुयोगिकस्वरूपेणसाध्यतायां सद्धेताचव्याप्तिः स्यात् । स्वावच्छेदकधम्मोवच्छिन्नत्वप्रवेशेनतस्यवारणे ऽप्यभावस्यघटानुयोगिकस्व. रूपेणसाध्यतायां सद्धता वभावाभावस्यकालिकेनाभाववत्ताबुद्धि प्रकारतायां प्रतियोगितावच्छेदकधर्मावच्छित्रत्वसत्वेनाव्याप्तिः स्यादिति प्रतियोगितावच्छेदकधम्मोतिरिक्तधम्मानवच्छिमत्वस्यापिनिवेश्यत्वात स्वावच्छेदकसम्बन्धावच्छिन्नत्वश्च पर्याप्त्यघटितमेवोपादेयम् प्रयोजनविरहादिति प्रकारतावैशिष्टयघटक स्वावच्छेदकसम्बन्धावच्छिन्नत्वञ्चस्वनिरुपितसंसर्गतावच्छेदकतापर्याप्त्यधिकरणधमनिष्ठावच्छेदकताकसंसर्गताकत्वन्तेन स्वरूपकालिकोमयसम्बन्धेन वह्नयभाववत्ताबुछेः प्रतिबन्धकत्वेन प्रकारतानिरुपितसंसर्गतावच्छेदककालिकत्वावच्छिन्नसंसर्गताकवृ. त्तिताया हेत्वधिकरणनिरुपिताया वह्नयभावेस त्वेऽपि नवहिमान्धूमादित्यत्राव्याप्तिः वृत्तितानिरूपितसंसर्गतावच्छेदकतापयाप्तिश्च ननिवेश्या प्रयोजनाभावादिति ।।०॥
घस्तुतोव्याप्यवृतित्वमत्रेत्यादि; अत्र स्वपदंसाध्यतावच्छेदका. वच्छिन्नपर न्तेनात्मवृत्तित्वविशिष्टसत्तासाध्यकस्यनव्याप्यवृत्तित्व हानिः । साध्यतावच्छेदकसम्बन्धावच्छित्वञ्च साध्यतानिरूपितसंसर्गतावच्छेदकतात्वावच्छिन्नपर्याप्त्यनुयोोगितावच्छेदकरूपावच्छि. नानुयोगिताकपर्याप्तिकावच्छेदकताकसंसर्गताकत्वम् । तेनात्मत्व. स्यसमवायस्वकालीनद्रव्यत्वोभयसम्बन्धेनसाध्यताया मात्मानुयोगिकसमवायेनद्रव्यत्वस्यसाध्यतायाश्च नव्याप्यवृत्तित्वहानिः । अथा.
"Aho Shrutgyanam"