________________
सिद्धान्तलक्षणतत्वालोकः ।
वहिसामानाधिकरण्यसामान्येति, तथाचस्वरूपसंबन्धरूपावच्छे. दकत्वघटितस्यप्राचीनमतसिद्धसाध्यसामानाधिकरण्यावच्छेदकत्वरू पव्याप्यतावच्छेदकत्वस्यनानुपपत्तिरितिभावः ॥ अनुकूलतर्कविरहस्थलेसाध्याभाववत्वांशेसंशयात्मक व्यभिचारज्ञानमपि प्रतिवन्धक. मित्याशयेनाहकेचित्विति, यथाचेत्यादिग्रन्थस्योक्तावच्छेदकत्वसाध. कानुमान वाधनिरासपरतांदर्शयति वृक्षत्वेत्यादि ।।
व्यवहारेति, शब्देत्यर्थः संदिग्धाप्रामाण्यकमिति, आप्तोक्तत्वानिश्चयनत्यादिः। नन्वाद्यक्षणावच्छिन्नोघटो गुणसामान्याभाघवान् गुणसमवायिकारणस्वाव्यवहितोतरत्वशून्यत्वादित्यनुमानमेवास्तु मानमितिचेन्न द्रव्योत्पत्ताववयवद्वयसंयोगस्यासमवायिकारणतया. तत्सद्भावार्थमस्तुसमवायिकारणस्यप्राकृत्वापेक्षासमवायिकारणगुणजन्येगुणे समवायिकारणार्येणसहभावेनैवापेक्ष्यतइत्येतदर्थेनाप्रयोजकत्वर्शकाकवलितत्वादनुमानस्येतिभावः ॥
प्रलयत्वमेवव्याहन्यतेति, भावकार्यत्वं स्वाश्रयप्रागभावानधि. करणवृत्तिध्वंसप्रतियोगिवृत्ति स्थाश्रयानधिकरणस्वाश्रयप्रागभावासमानकालीनवृत्तिध्वंसप्रतिगिवृत्तिवा कायकवृत्तित्वा श्चत्रत्ववदित्यनुमानस्यैवप्रलयेप्रमाणतया तेनैव कार्यानधिकरणतयैवतत्सिद्धः तदभावप्रलयत्वस्यैवासिद्धिप्रसंगादिति भावः ।। ___ मानाभावादिति, स्वत्वस्याननुगततयादृष्टान्तपक्षयोरनुगतसाषाभावेनानुमानासंभवादागमस्यचतात्पर्यानिर्णयादिनासंदिग्धार्थत. वाप्रामाण्यानिर्णयादितिभावः ॥
अथोक्तरूपेणप्रतीतिविषयत्वस्यावच्छेदकत्वाभाववृत्तित्वाभावेवा कल्पने कुत्राप्यभावस्याव्याप्यवृत्तित्वंनस्या दित्यस्वरसादाहयदिबू: यादिति । सम्बन्धसत्तायास्सम्बन्धिसत्ताप्रयोजकतयाप्रयोजकविरहेप्रयोज्यविरहस्यावश्यकत्वमित्याशयेनाह तथाचेति । ___ यत्सम्बन्धाभाववानिति, अभावश्चतत्सम्बन्धेन तद्वत्ताबुद्धिर्येनसम्बन्धेनतत्सम्बन्धसत्तामपेक्षते तत्सम्बन्धावच्छिन्न प्रतियोगिताका तेन जलाधवच्छदेनकालिकेन वह्निसंयोगाभाववतिसमये तदवच्छेदे. नसंयोगसम्बन्धावच्छिन्नवह्नयभावासत्वेऽपिनव्यभिचारः ॥ अन्य. थेति, सम्बन्धसत्तायाः सम्बान्धसत्ताप्रयोजकत्वमभ्युपेत्योक्तस्य नियमस्यसप्रयोजकत्वोपगमइत्यर्थः । तुल्यन्यायेनेति, प्रयोजकाभा
"Aho Shrutgyanam"