________________
सिद्धान्तलक्षणतत्त्वा लोकः ।
जकजात्यवच्छिन्नाभावप्रवेशप्रयोजनविरहादुपाधिसंपत्यर्थन्तत्प्रवेश
श्वानुचितइतिनिरस्तम् । निरवच्छिन्नवृत्तिकत्वविशिष्टसंयोगीयया'वद्विशेषाभावस्याप्युपाधित्वं यद्यपि संभवति तथापिसामान्यव्याप्त्यनुरोधेन सामान्यएवोपाधिरुक्तः विशेषव्याप्तौचः विशेषोपाधिरग्रेवक्ष्यत• एवेति गुणविभाजकजातित्वञ्च गुणत्वव्याप्यत्वे सतिगुणत्वव्याप्याव्याव्यजातित्वं तदपिगुणत्वसमानाधिकरणभेदप्रतियोगितावच्छेदकजातिमदन्यजातित्वं जातिमत्ताचस्वसामानाधिकरण्यस्वसमानाधिकरणभेदप्रतियोगितावच्छेदकत्वोभयसम्बन्धेनेति । वस्तुतस्तुगुणवि
११५
भागसूत्रजन्यवोधीयोद्देश्यतावच्छेदकत्वमेवगुणविभाजकत्वंवोध्यम् । अस्तुसामान्यव्याप्तौ सामान्यस्यैषोपाधेः प्रदर्शनीयत्व न्तथापिनक्षतिरित्याशयेनाह यस्विति, तथाचपरस्परानवच्छेदकानवच्छिन्नवृत्तिकत्वविशिष्टतदीययावद्विशेषाभावस्योपाधेः तत्सामान्याभावव्यापकत्वं
सामान्यतएवसम्भवतिकपिसंयोगसामान्याभाववत्यभिघातसामान्याभाववतिचवृक्षेमूलस्यान्तर्देशस्यचतदीयविशेषाभावमात्रावच्छेदक
त्वेनपरस्परानवच्छेदकत्वविरहेणपरस्परानवच्छेदकतत्तच्छाखाद्यनव
च्छिन्नमूलान्तर्देशाद्यवच्छिन्नवृत्तित्वविशिष्टतत्तदीययावद्विशेषाभावयो
रसत्वात्साधन व्यापकत्वन्तुन सम्भवतिसंयोगीययावद्विशेषाभाववतिवृक्षेतादृशवृत्तित्वविशिष्टस्यतस्यासत्वात् देशमात्रस्यैवतत्रपरस्परानवच्छेदकतयातदनवच्छिन्नत्वस्यनिरवच्छिन्नवृत्तित्व एव सत्वादितिभावः । नच परस्परत्वप्रबेशादननुगमः तदीयविशेषाभावत्वावच्छिन्नानुयोगिता
कपर्याप्तिप्रतियोगिकूटत्वविशिष्टाधिकरणत्त्वस्योपाधित्वेन विवक्षणात्
वैौशष्टयंच स्वावच्छिश्ननिरूपितत्व स्वविशिष्टानवच्छिन्नत्वोभयसम्बन्धे नस्वषैशिष्ट्रधंच स्वाश्रययत्किचिदभावाधिकरणतानवच्छेदकत्वसम्ब धेन । अथवातादृशाभावत्वविशिष्टाधिकरणता कूटवत्वमेवोपाधिः वैशिष्टयंच प्रागुक्तोभयसम्बन्धेनेति यत्किचित्त्वप्रवेशा त्संयोगविशेषाभावत्वाश्रयाभावाधिकरण तानवच्छेदकदेशाप्रसिद्ध्यादिप्रयुक्तोपाध्यसम्भवानवकाशः । अत्रपरस्परावच्छेदकंयद्यत्तदनवच्छिन्नत्वं तुनप्रवेश्यम् तस्यनिरवच्छिन्नत्वएव पय्र्यवसानेन पूर्वकल्पाविशेषादिति ॥ वृत्यनियामकस्यप्रतियोगितवच्छेदकत्वपक्षे ऽवच्छेदकतासम्बन्धे
नतदभाधिकरणीभूतदेशस्या वच्छेद्यतासम्बन्धेनाभाववत्व मेकाच्छिनत्वं व्याप्यवृत्तिरूपादिविशेषाभावकूटाधिकरणतायाअपि सं
" Aho Shrutgyanam"