________________
सिद्धान्तलक्षणतत्त्वालोकः ।
कारणभावस्य ग्रन्थविरोधेन येन प्रकृतविषये सङ्कोचमासादयेदिति चेन्न प्रतियोगितावच्छेदकावच्छिन्नघटादिवृत्तिभेदप्रतियोगित्वात् साध्यस्यातिव्याप्तेः नचावच्छेदकावच्छेदेनान्वस्यौत्सर्गिकत्वेन प्रतियोगितावच्छेकावच्छिन्नत्वव्यापकभेदप्रतीतेर्नातिव्याप्तिरितिवाच्यमुभयभेदमादायातिव्याप्त्या साध्यतावच्छेदक एव भेदप्रतियोगितावच्छेदकत्वस्य भेदप्रतियोगितायाम्वा साध्यतावच्छेदकेतरानवच्छि अत्वस्य विवक्षणीयतया प्रमेसाध्य के व्याप्तेः प्रमेयत्वस्य भेदप्रतियो गितामवच्छेदकत्वात् सभयभेदस्य केवलान्वयित्वेनोभयसाध्यकव्यभिचारिण्यतिप्रसङ्गाच प्रतियोगितावच्छेदकावच्छिन्नत्वव्यापकोभ•
यावृत्तिधर्म्ममात्रावच्छिन्नप्रतियोगिताकभेदप्रतियोगितावच्छेदकसाध्यसामानाधिकरण्यस्य साध्यतावच्छेदके विवक्षणेऽपि तादात्म्येन प्रमेयसाध्य काव्याप्तेः अत एव प्रतियोग्यवृत्तितादृशभेदप्रतियोगिसाध्यसामानाधिकरण्यविवक्षापि निरस्ता व्युत्पत्तिवैचित्र्येण प्रतियोगितावच्छेदकत्वावच्छेदेन साध्यतावच्छेकभेदविवक्षणे प्रमेयसाध्यतावच्छेदकस्थले दोषस्य दुर्वारत्वात् प्रतियोगितानिरूपितावच्छेदकतात्वावच्छेदेन साध्यतावच्छेदकताविशिष्टान्यत्वस्य स्व• सामाधिकरण्यस्वावच्छेक सम्बन्धावच्छिन्नत्वस्ववृत्तित्वस्वानवच्छे. दकानवच्छिन्नत्यैतऋतुष्टयसम्बन्धेन विवक्षणे चातिगौरवात् ॥ उच्यते तथास्थितासत्तेस्तात्पर्य्यविषयानिब्र्बाहकत्व आसत्त्यन्तरकल्पनाया दृष्टत्वात् काव्यप्रबन्धेषु नायंसुधांशुरित्यादौ तत्रश्ह्येतद्भिन्नसुधांशौ व्योमगङ्गासरोरुहत्वप्रतीतेर्विवक्षितवच्छित्तिविशेषाप्रत्यायकत्वात् प्रकृतेऽपि विवक्षितलघुलक्षणप्रत्ययाय प्रतियोगितावच्छेका. वच्छिन्नपदनञ् पदार्थयोरव्यवधानेनोपस्थितिकल्पना पदयोर्वाऽव्यवधानेनान्वयानुसन्धानकल्पनायुक्तैवेति एवंयत्पदघटितवाक्येनञ्ससमभिहारेयत्पदार्थस्य विशेष्यत्वयोग्यत्वेतस्यैतत्त्वमिति नम् समभिद्दारेऽपिस एव विशेष्योऽन्यथोदाहरणवाक्यान्नञ् पद्घटिताद्वह्निमद्भेदधूमवद्भेदयोर्व्याप्यव्यापकभावोनप्रतीयते नियमतः प्रतियोग्यभावान्वयस्यतुल्ययोगक्षेमत्वादिति ॥ अथात्रापि तादृशप्रतियोगितावच्छेदका - च्छिन्नघटादिभेदस्य साध्ये सत्त्वादतिव्याप्तिः प्रतियोगितावच्छेदकावच्छिन्नसामान्यभेदनिवेशे साध्यमात्रस्यैव यावदभावीयप्रतियोगितावच्छेदकावच्छिन्नत्वेनासम्भवः नच यथाश्रुतइष्यत इति वाच्यन्ना.
"Aho Shrutgyanam"