________________
अर्बुदाद्रिकल्पः । ८. अर्बुदाद्रिकल्पः ।
T
अर्हन्तौ प्रणिपत्याहं श्रीमन्ना भेय- नेमिनौ । महादेरर्बुदाख्यस्य कल्पं जल्पामि लेशतः ॥ १ ॥ देव्याः श्रीमातुरुत्पत्तिमादौ वक्ष्ये यथाश्रुतम् । तदधिष्ठानतो ह्येष प्रख्यातो भुवि पर्वतः ॥ २ ॥ श्रीरत्नमालनगरे राजाभूद् रत्नशेखरः । सोऽनपत्यतया दूनः ग्रैषीच्छाकुनिकान् बहिः ॥ ३ ॥ शिर[:]स्थां काष्ठभारिण्यास्ते दुर्गा दुर्गतस्त्रियाः । वीक्ष्य व्यजिज्ञपन् राज्ञे भाव्यस्यास्त्वत्पदे सुतः || ४ || राज्ञादिष्टा सगर्भैव सा हन्तुं तन्नरैर्निशि । गर्चे क्षिप्ता काय चिन्ताव्याजात्तस्माद्वहिर्निरेत् ॥ ५ ॥ साऽसूत सूनुं भयार्त्ता द्राक् च झाटान्तरेऽमुचत् । गर्त्तं चानीय तद्वृत्तानभिज्ञैस्तैरधाति सा ॥ ६ ॥ पुण्येरितार्थं स्तन्यं चापीपत्सन्ध्याद्वये मृगी । प्रवृद्धेऽस्मिंष्टकशाला महालक्ष्म्याः पुरोऽन्यदा ॥ ७ ॥ मृग्याश्चतुर्णां पादानामधो नूतननाणकम् । जातं श्रुत्वा शिशुरूपं लोके वार्ता व्यजृम्भत ॥ ८ ॥ नव्यो नृपोऽभूत्कोऽपीति श्रुत्वा प्रैषीद् भटान्नृपः । तद्वधायाथ तं दृष्ट्वा सायं ते पुरगोपुरे ॥ ९ ॥ बालहत्याभियाऽमुञ्चन् गोयूथस्यायतः पथि । तत्तथैव स्थितं भाग्यादेकस्तूक्षा पुरोऽभवत् ॥ १० ॥ तत्प्रेर्य स चतुष्पादान्तराले तं शिशुं न्यधात् । तच्छ्रुत्वा मन्त्रिवोधात्तं राजाऽमंस्तौरसं मुदा ॥ ११ ॥ श्रीपुञ्जाख्यः क्रमात्सोऽभूद् भूपस्तस्याऽभवत् सुता । श्रीमाता रूपसंपन्ना केवलं प्लवगानना || १२ || तद्वैराग्यान्निर्विषया जातु जातिस्मरा पितुः । न्यवेदयत् प्राग्भवं खं यदाऽऽसं वानरी पुरा ॥ १३ ॥ सञ्चरन्त्यर्बुदं शाखिशाखां तालुनि केनचित् । विद्धा मृत्यथ रुण्डं मे कुण्डेऽपतत्तरोरधः ॥ १४ ॥ तस्य कामिततीर्थस्य माहात्म्यान्नृतनुर्मम । मस्तकं तु तथैवास्तेऽद्याप्यतः कपिमुख्यहम् || १५ | श्रीपुञ्ज क्षेपयच्छी कुण्डे प्रेष्य निजान्नरान् । ततः सा नृमुखी जज्ञेऽतपस्यच्चार्बुदे गिरौ ॥ १६ ॥ व्योमगाम्यन्यदा योगी दृष्ट्वा तां रूपमोहितः । खादुत्तीर्यालपत् प्रेम्णा मां कथं वृणुषे शुभे ! ॥ १७ ॥ सोचेऽत्यगादाद्ययामो रात्रेस्तावदतः परम् । ताम्रचूडरुतादर्वाक् कथा चिद्विद्यया यदि ॥ १८ ॥ शैलेऽत्र कुरुषे हृद्याः पद्या द्वादश तर्हि मे । वरः स्या इति, चेटैः खैर्द्वियाम्याचीकरत्स ताः ॥ १९ ॥ खशक्त्या कुर्कुटरवे कृतके कारिते तया । निषिद्धोऽपि विवाहाय नास्थात्तत्कैतवं विदन् ॥ २० ॥ सरित्तीरेऽथ तं खखा कृतवीवाहसम्भृतिम् । सोचे त्रिशूलमुत्सृज्य वियोढुं संनिवेहि मे ॥ २१ ॥ तथा कृत्वोपागतस्य पदयोर्विकृतान् शुनः । नियोज्य साऽस्य शूलेन हृद्यस्तेन" वधं व्यधात् ॥ २२ ॥ इत्याजन्माखण्डशीला जन्म नीत्वा स्वराप सा । श्रीपुञ्जोऽशिखरं " तत्र तत्प्रासादमचीकरत् ॥ २३ ॥ षण्मासान्तेऽर्बुदाख्योऽस्याधोभागेऽद्रेश्चलत्यहिः । ततोऽद्रिकम्पस्तत्सर्वे " प्रासादाः शिखरं बिना ॥ २४ ॥
लौकिकास्त्वाहुः
'नन्दिवर्द्धन इत्यासीत् प्राक् शैलोऽयं हिमाद्रिजः । कालेनार्बुद नागाधिष्ठानात्वर्बुद इत्यभूत् ॥ २५ ॥ वसन्ति द्वादश ग्रामा अस्योपरि धनोद्धुराः । तपखिनो गोग्गलिका राष्ट्रिकाश्च सहस्रशः ॥ २६ ॥ न स वृक्षो न सा वल्ली न तत् पुष्पं न तत् फलम् । न स कन्दो न सा खानिर्या नैवात्र निरीक्ष्यते ॥ २७ ॥ प्रदीपवन्महौषध्यो जाज्वलन्त्यत्र रात्रिषु । सुरभीणि रसाढ्यानि वनानि द्विविधान्यपि ॥ २८ ॥ स्वच्छन्दोच्छलदच्छोम्मिंस्तीरद्रुकुसुमाञ्चिता । पिपासुक्कॢप्तानन्दाऽत्र भाति मन्दाकिनी धुनी ॥ २९ ॥ चकासत्यस्य शिखराण्युत्तुङ्गानि सहस्रशः । परिस्खलन्ति सूर्यस्य येषु रथ्या अपि क्षणम् ॥ ३० ॥
१५
1 P व
2 Pa गर्भ । 8 C व्यजृम्भते । 4 Pa भव्यो । 5 A C गोयूथः । 6 A C तत्प्रेर्य च स । 7 P बिना सर्वत्र 'श्री पुजे' । + P मां वृणीषे कथं शुभे । 8 'पा' पतितः Pa Pb संवृतिम् । 10 P सा स्वशूलेनाहल वेष वधं । 11 P श्री पुजः शिखरे 12AB Pb ° सर्व 13 'धनो' पतितः C आदर्श 14 'वनानि' पतितः P |
5
10
15
20
25
30