________________
श्रीजिनप्रभसूरिविरचितः कल्प प्रदी पा पर ना मा
॥ विविधतीर्थकल्पः॥
॥ ॐ नमोऽर्हद्भ्यः ॥
१. शत्रुञ्जयतीर्थकल्पः। देवः' श्रीपुण्डरीकाख्यभूभृच्छिखरशेखरम् । अलंकरिष्णुः प्रासादं श्रीनाभेयः श्रियेऽस्तु वः ॥ १ ॥ श्रीशत्रुञ्जयतीर्थस्य माहात्म्यमतिमुक्तकः । केवली यदुवाच प्राक् (ग्) नारदस्य ऋषेः पुरः ॥ २ ॥ तदहं लेशतो वक्ष्ये खपरस्मृतिहेतवे । श्रोतुमर्हन्ति भव्यास्तत् पापनाशनकाम्यया ॥ ३ ॥-युगलम् । शत्रुञ्जये पुण्डरीकस्तपोभृत् पञ्चकोटियुक् । चैव्या सिद्धस्ततः सोऽपि पुण्डरीक इति स्मृतः ॥ ४ ॥ सिद्धिक्षेत्र तीर्थराजो मरुदेवो भगीरथः । विमलाद्रिाहुबली सहस्रकमलस्तथा ॥ ५ ॥ 5 तालध्वजः कदम्बश्च शतपनो नगाधिराट् । अष्टोत्तरशतकूटः सहस्रपत्र इत्यपि ॥ ६॥ ढको लौहित्यः कपर्दिनिवासः सिद्धिशेखरः। शत्रुञ्जयस्तथा मुक्तिनिलयः सिद्धिपर्वतः ॥७॥ पुण्डरीकश्चेति नामधेयानामेकविंशतिः । गीयते तस्य तीर्थस्य कृता सुरनरपिभिः ॥ ८॥-कलापकम् । ढङ्कादयः पञ्च कूटास्तत्र सन्ति सदैवताः । रसकूपीरत्नखनिविवरौषधिराजिताः ॥ ९ ॥ ढङ्कः कदम्बो लौहित्यस्तालध्वज-कपर्दिनौ । पञ्चेति ते कालवशान्मिथ्याडम्भिरुरीकृताः ॥ १०॥ 10 अशीति योजनान्याचे द्वैतीयीके तु सप्ततिम् । षष्टिं तृतीये तुर्ये चारके पञ्चाशतं तथा ॥ ११ ॥ पञ्चमे द्वादशैतानि सप्तरली तथान्तिमे ! इत्याप्तैरवसर्पिण्यां विस्तारस्तस्य कीर्तितः ॥ १२ ॥-युग्मम् । पञ्चाशतं योजनानि मूलेऽस्य दश चोपरि । विस्तार उच्छ्यस्त्वष्टौ युगादीशे तपत्यभूत् ॥ १३ ॥ अस्मिन्वृषभसेनाद्या असंख्याः समवासरन् । तीर्थाधिराजाः सिद्धाश्चातीते काले महर्षयः ॥ १४ ॥ श्रीपद्मनाभप्रमुखा भाविनो जिननायकाः । अस्मिन् समवसर्तारः कीर्तिपावितविष्टपाः ॥ १५ ॥
15 श्रीनाभेयादि-वीरान्ताः श्रीनेमीश्वरवर्जिताः । त्रयोविंशतिरहन्तः समवासार्पुरत्र च ॥ १६ ॥ हेमरूप्यादिजद्वाविंशत्यहत्प्रतिमान्वितम् । अङ्करलजनाभेयप्रतिमालङ्कृतं महत् ॥ १७ ॥ द्वाविंशतिक्षुल्लदेवकुलिकायुक्तमुच्चकैः । योजनप्रमितं रत्नमयमुत्पन्नकेवले' ॥ १८॥ आदीश्वरे श्रीभरतश्चक्री चैत्यमचीकरत् । एतस्यामवसर्पिण्या पूर्वमत्र पवित्रधीः ॥ १९ ॥-त्रिभिर्विशेषकम् । द्वाविंशतेर्जिनेन्द्राणां यथावं पादुकायुता । भात्यत्रायतनश्रेणी लेप्यनिर्मितबिम्बयुक् ॥ २० ॥
20 अकारि चात्र समवसरणेन सहोच्चकैः । प्रासादो मरुदेवायाः श्रीबाहुबलिभूभुजा ।। २१ ॥
1A देव। 2 B सतिमुत्तिकः। 3 B ऋषे । 4A सिद्ध । 5A B योजनानाये । 6A ते । 7 B केवलो।