SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ [ पा० ४ ० १८. ] श० म० न्यासानुसन्धानम्-पर्पा० 1 पर्पादयः सर्वे गतिकरणान्येव । पर्पः पशूनां गतिसाधनभूतः पीठः । अधः प्रसिद्ध एव । अश्वत्थाव्यालादयो हेतवोsपि करणत्वेन विवक्षिताः प्रत्ययमुत्पादयन्ति । अश्वत्थो 5 पिप्पलवृक्षः, अर्ध्य पूजाप्रदेयजलम्, भ्यालः--सर्पः, व्यासः निस्तारः इत्येतेषां साक्षाद् गतिसाधनत्वमनुपपन्नमेवेत्योपचारिकं तद् बोध्यम् ||६|४|१२| श्रीसिद्ध प्रेमचन्द्रशब्दानुशासने षष्ठोऽध्यायः । पदिकः ||६|४|१३॥ १० प्र०-पादशब्दात् तेन चरत्यर्थे इकद 10 प्रत्ययो भवति, अस्य पदुभावञ्च निपात्यते । पद्भ्यां चरति पदिकः ||१३|| श० म० न्यासानुसन्धानम्--पदिकः । पर्पादिगण एवं पादशब्दस्यापि पाठेन सिद्धे, पदादेशविधानार्थे निपातनसूत्रमिदम् । यद्यपि पादशब्दसमानार्थः पदशब्दोऽ15 प्यस्ति तेन पर्पादिगणे पठितेन रूपं सिद्धयेत्, तथापि पादशब्दादिकणा पादिक इति मा भूदित्येतदर्थं निपातनारम्भस्यावश्यकत्वम् ||६|४|१३|| श्वगणाद्वा ||६||४|१४|| त० प्र०- श्वगणात् तेन चरत्यर्थे इकट् n प्रत्ययो वा भवति । श्वगणेन चरति श्वगणिकः। वर्गाणिकी । पक्षे इकण श्वागणिकः । श्वागणिकी, 'श्वादेरिति' [ ७.४.१०.] इति यात् प्रागौर्न भवति ॥१४॥ श० म० न्यासानुसन्धानम्---भाग० | न 25 गणः श्वगणः तस्य गतिसाधनस्वमप्यौपचारिकमेव, तमादाय चरन अधिकादिरेवमुच्यते । तस्य गत्युद्देश्यं मृगयादि, तरसायनं गणः इति तमादाय चरतोऽस्य गति स्वत्करणिका भवति । कोऽमावे चरति " [६.४.११.] इति इण् भवति । तत्रादिस्वरवृद्धि बाधित्वा "स्वः पदा30 न्तात् प्रागदौत् ” । ७.४.५. ] इति प्रकरणे “ द्वारादेः” [७.४.६० ] इति औतः प्राप्तावाह-" श्वादेरिति " [ ७.४.१०.] इति वात् प्रागौनैति । औतो निषेवे आदिस्वर वागणिक इति, स्त्रियां श्वागणिकीति ६४|१४|| । 35 वेदनादेर्जीवति ||६|| १५॥ त० प्र०-सेनेति वर्तते । वेतन इत्येवमादिभ्यस्तृतीयान्तेभ्यो जीवत्वर्थे इक प्रत्यया । २६७ भवति । वेतनेन जीवति वैतनिकः । वाशिकः । वेतन वा अर्धवाद धनु दण्ड धनुर्दण्ड जाल वेश उपवेश प्रेषण भृति उपवेश, उपस्था 40 उपास्ति उपस्थान सुख शय्या सुखशय्या शक्ति उपनिषत् उपरिजन स्फिज स्फिग वाल पुतचाल उपदेश पाद उपहस्त इति वेतनादिः ||१५|| To म० म्यासानुसन्धानम् - बेतमा० । समर्थविभक्तिं सूचयति तेनेति वर्तते इति । पूर्वतः 45 संबध्यते इत्यर्थः । जीवतीत्यस्य यद्यपि प्राणधारणमर्थः । बेतनादेश्च न साक्षात् प्राणधारणसाधनत्वमपि तु प्राणधारणोपयोगि वस्तु संपादनद्वारेति बोध्यम् ||६|४|१५|| व्यस्ताच्च क्रय-विक्रयादिकः ||६|४|१६|| त० प्र० - क्रय-विक्रयशब्दात् समस्ताद् 50 व्यस्ताच्च तेन जीवत्यर्थे इकः प्रत्ययो भवति । क्रय-विक्रयेण जीवति क्रय-विक्रयिकः । क्रयिकः। विक्रयिकः ॥१६॥ श० म० न्यासानुसन्धानम्-व्यस्ताः । क्रय-विक्रययोरुभयोः व्यस्तयोश्च जीविकासाधनत्वमिति सम- 55 स्ताद् व्यस्ताच्च प्रत्ययविधानम् । कश्चिनोविकार्थ वस्तु सुलभमूल्येन क्रीत्वाऽविकमूल्येन च विक्रीय जीवति । कश्चित् क्रीत्वोपयुज्य जीवति, अन्यः स्वोपादितमेव वस्तु जीविकार्थ विक्रीय जीवतीति सर्वथा प्रयोगसंभावना || ६१४|१६|| 60 बस्नात् ||६|४|१७| स० प्र०-यस्नात् तेन जीवत्यर्थे इकः प्रत्ययो भवति । वस्त्रं मूल्यं तेन जीवति वस्निकः ||१७|| श० म० न्यासानुसन्धानम् - वस्नात् 165 वस्नंशब्दोऽप्रसिद्धार्थ इति तदर्थं ग्राहयति - वस्नं मूल्यमिति । भूलेन आनाम्यं मूख्यम् । " हृद्य-पद्य ०" [७. १.१२. ] इति यः, निष्क्रयद्रव्यं मूल्यमित्युच्यते, तथा च निष्कयद्रव्यं वेतनमप्युच्यते, तेनैव स्वीयपारिश्रमिकादिरूपेण निर्वहति यः स वास्निकः ||६|४|१७| आयुधादयश्च ॥६४॥१८॥ त० प्र० - आयुधशब्दात् तेन जीवत्यर्थे यकारादिका प्रत्ययौ भवतः । आयुधीयः । "Aho Shrutgyanam" 70
SR No.009518
Book TitleBruhannyasa Part 6
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherSiddhhem Prakashan Samiti Botad
Publication Year1983
Total Pages296
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy