________________
कलिकालसर्वज्ञभीमचन्द्रसूरिभगवत्प्रणीते
१०२
।
द्विश्चैतत्प्रकरणस्थः स्वार्थिकादि प्रकरणस्थश्च गृह्यते, इतः पूर्व तथैव व्याख्यातत्वात् । तथेति कथनेन लब्धमर्थमाहrer मति । पूर्व येषां प्रत्ययानां यथा लुयुक्ता तथैव इन्द्रेऽपि भवतीत्यर्थः । उदाहरणानां विग्रहं प्रदर्शयति5 वार्केण्यचेत्यादिना । अत्रेदं विचारणीयम् - त्रिपदद्वन्द्वस्याबहुत्वे वर्तमानत्वसम्भवि । इतरेतरयोगद्वन्द्वे पदत्रयगतत्रित्व ( बहुत्व ) संख्याया अनिवार्यत्वात् इति 'अबहुषु वर्तमाने द्वन्द्वे' इत्यस्य निमित्तस्याभावात् कथं तत्रास्य सूत्रस्य प्रवृत्तिरिति । अत्रोच्यते-अबहुष्वर्थेषु वर्तमाने इत्य10 स्याबहुत्वयुक्तानां द्वन्द्वे इत्येव तात्पर्यम् । तथा च द्वन्द्वघटकपदानामेवाबहुत्वे वर्तमानत्वं निमित्तं न तु समुदाय - स्येति लभ्यते । अत्र कः प्रत्ययः कुतो विहितः तस्य चानेन लुर् भवतीति प्रातिस्त्रिकरूपेण ग्राहयति - अत्र “वृकाट्टेण्यण्” [७.३.६४.] इत्यादिना ।
15
|
पदकृत्यमाह - तथेति किमिति । द्रयादेरिति यावदेव सूत्रमस्तु, द्वन्द्वे इत्यनुवृत्तमेव, तथा च यथापूर्वमिति विहाय सर्वोऽप्यर्थः पूर्ववदेव ( यथानिर्दिष्टम् ) स्यात् तत्र का क्षतिरिति प्रश्नः । यास्क लाग्या छात्रा इति, यस्कस्येमे यास्काः, लक्ष्यस्येमे लायाः, शैषिकः 20 "तस्येदम्” [६.३.१५९.] इत्यण, तयोर्द्वन्द्वे यास्क - लाह्या इति रूपम् । अत्राणो लुर् न भवति, यतो “यस्कादेर्गोत्रे” [६.१.१२५.] इत्यत्र गोत्रार्थे विहितस्यैव प्रत्ययस्य लुबुक्ता, अयं च न गोत्रार्थे विहितोऽपि तु इदमर्थे इति यथापूर्ववैपरीत्येन न भवति । तथेत्यस्या25 भावे तु स्यादेवेति मावः । एवमन्येष्वपि प्रत्युदाहरणेषु पूर्वस्थितिमुदाहरति-तत्रास्त्रियामिति प्रतिषेधादित्यादिना ।” अथ द्रयादेरिति किमर्थमित्याशङ्कां संभाव्योत्तरयति - प्रयादिग्रहणमगोत्रेऽपि यथा स्यादित्येव मर्थमिति । ट्र्यादिग्रहणाभावे “यस्कादेगेगे" [६.१. 30 १२५.] इत्यतो गोत्रे इत्यस्य प्रकृतत्वाद् गोत्रप्रत्ययान्तस्यैव प्रत्ययलुबिति विज्ञास्यते, 'ततश्च वार्केण्यादीनां न स्यात् । कृते तु द्रयादिग्रहणे “शकादिभ्यो द्रेर्लुग्” [६.१.१२०.] इत्यारभ्यैव यथाऽगोत्रे गोत्रे च लुपः प्रवृत्तिस्तथैवानेनापि लुम् भवतीति विज्ञानादगोत्रेऽपि प्रवृत्तिर्भवतीत्यर्थः 35 अबर्थं वचनमिति । बहुषु पूर्वे रेव प्रत्ययलुपः सिद्धेः विधानसामर्थ्यादिदं बहुत्वाभावे प्रवर्तत इति लभ्यत इत्यर्थः ||६|१|१३२||
।
वाऽन्येन ||६|१|१३३ ॥ यादेरन्येन सह यादीनां वन्दे बहुष्वर्थेषु
[ पा० १ ० १३४. ]
वर्तमाने यः स यादिप्रत्ययस्तस्य तथा षा लुप् 40 भवति यथापूर्वम् । अङ्ग- बङ्ग-दाक्षयः । आङ्ग बाङ्ग-दाक्षयः । गर्गवत्सौपगवाः । गार्ग्य वात्स्योपगवाः । भृगुवत्साप्रायणाः । भार्गव वात्स्याग्रायणाः । गर्भकाश्यपगालवाः । गार्ग्यकाश्यपगालवाः । पूर्वे नित्ये प्राप्ते विकल्पार्थ वचनम् ॥ १३३॥
श० म० न्यासानुसन्धानम् - वाऽन्येन । द्रयादेरिति संबध्यते आवर्त्यते च । तथा च योऽर्थः सम्पन्नस्तमाह वृत्त्या-द्रयादेरन्येन सहेति । द्रयादयो 45 लापिना येऽत्र प्रकरणे पूर्वमुक्तास्तेषां यदाऽन्येन सह द्वन्द्वसमासेो भवति तदा तद्द्घटकद्रयादिप्रत्ययस्य नित्यं वनेन विधीयते । उदाहरति-अङ्ग- बङ्ग-दाक्षय इति । आङ्गश्व बाङ्गश्च दाक्षिश्चेवि विग्रहः, तत्राऽन-बङ्गौ द्विप्रत्ययान्ती दाक्षिण्य इति इन्द्रेऽङ्ग-बङ्गयोः प्रत्ययो 50 लुप्यते, दाक्षेनेति प्रक्रिया | एवं सर्वोदाहरणेषु योजनीयम् । सर्वत्राद्यौ द्वौ द्विसंज्ञकप्रत्ययान्तौ तृतीयोऽन्य इति विवेकः । अत्र वृत्तौ बहुष्वर्थेषु वर्तमाने इति लिखितं दृश्यते तन्न युक्तम् । पूर्वसूत्रस्याबह्वर्थ स्योक्तत्वेनास्य च तदपवादकत्वकथनादस्यापि अवहुल्य एवं प्रवृचेर्युक्तत्वात् 55 उत्सर्गसमानदेशा अपवादाः इति न्यायात् । तथा च द्वन्द्वेऽबहुष्वर्थेषु वर्तमाने इत्येव पाठः समीचीनं इति प्रतिभाति । ननु प्रकृतेोदाहरणेषु पूर्वेणैव सिद्धिः, 'द्रयादीनां द्वन्द्वे द्रयादेर्ल' इत्येवं विज्ञाने यस्तत्र द्रयादिः स्यात् स एव लुप्येतैवेति किमर्थमिदं सूत्रमित्याशङ्कायामाह - 60 पूर्वेण नित्यं प्राप्ते विकल्पार्थमिति । तथा च दयादीनां द्रयादिना सह समासे पूर्वेण नित्यं भवति, तेषामन्येन समासे चानेन विकल्पेन भवतीति व्यवस्था सिद्धयतीति भावः ||६|१|१३३|| द्वथेकेषु षष्ठयास्तत्पुरुषे यत्रादेव || ६ | १|१३४|| 65
षष्ठीतत्पुरुषे यत् पदं तस्याः षष्ठद्मा विषये द्वयोरेकस्मिन् वर्तते तस्य यः स यत्रादिः प्रत्ययस्तस्य तथा वा लुकू भवति यथापूर्वम् । गार्ग्यस्य गार्ग्ययोर्वा कुलं गर्गकुलम् । गार्ग्यकुलम् | यवम्, बिदकुलम् । बैदकुलम् । अगस्ति 70 कुलम् | आगस्त्यकुलम् । भृगुकुलम् | भार्गवकुलम् | केष्विति । किम् ? गर्गाणां कुलम् ।
कुलम्। षष्ठा इति किम् ? गार्ग्यहितम् । परमगार्ग्यः । षष्ठमा इति तत्पुरुषस्य विशेष
"Aho Shrutgyanam"