________________
कृतज्ञतासमर्पणम्
सुविस्पष्टं गदनम्।
तिरुपतिस्थराष्ट्रीयसंस्कृतविद्यापीठस्य कुलपतिचरेभ्य: महाविद्वद्भ्यः श्री डि. प्रह्लादाचार्येभ्यः धन्यवादान् समर्पयामि ये स्वयं विरचितानेकान्थाः सन्तो मादृशां प्रेरणामधिकतरामनिशमुत्पादयन्ति।
एतादृशग्रन्थानां मुद्रणादिव्यवहारेषु सश्रद्धं सोत्साहं च कर्तव्यभारं निर्वहन प्राच्यविद्यासंशोधनालयीयो विद्वान् डा. डि.पि.मधुसूदनाचार्यो ममादरस्य पात्रमस्ति।
इदंप्रथमतया ग्रन्थोऽयं सुधर्मासंस्कृतपत्रिकायाम् १९८२ ईसव्याम् अवततार।
पुस्तकाकारेणादिमं मुद्रणमस्य मध्यप्रदेशीय-प्रख्याग्रन्थमालायां २००५ ईसव्यां संजातम्।
परिष्कृतं सदेतद् द्वितीय परिष्कृतं जननं नवदिल्लीस्थपरिमलप्रकाशनद्वारा २००७ ईसव्यां प्राप्नोत्।
तृतीयवारमस्य पुनर्जन्म मन्त्रालयस्थराघवेन्द्रमठे २००९ ईसव्यां समभूत्। तस्यैवाधुना प्रचारोऽस्ति विश्वस्मिन्।
मदीयाः शतं नतय:
-नन्दनवनकल्पतरौ आभाणकजगन्नाथस्य प्रकाशनकृपाप्रदायकेभ्यस्तत्रभवद्भ्यो विजयशीलचन्द्रसूरिवर्येभ्य:, ग्रन्थरूपेणामीषां प्रथमं प्रकाशनं कृतवद्भ्यां प्रख्याग्रन्थमालायाः संपादकाभ्यां डा.राधावल्लभत्रिपाठि-डा.अच्युतानन्ददाशाभ्यां, द्वितीयसंस्करणं प्रकाशचित्रे विश्वविख्यातायाः परिमलग्रन्थप्रकाशनसंस्थाया अध्यक्षाय श्री कन्हैयलालजोशिने,कर्णावत्यां स्वकीयं गृहग्रन्थालयं दर्शयित्वा मां विस्मयोदधौ निमज्जितवते श्रीहिमांशुजोशिनं च मह्यं परिचायितवते “आर्.एच्.पटेल कालेज आफ आर्ट्स एण्ड् कामर्स"विद्यालये संस्कृताध्यापकाय थी अरुणकुमारमिथाय, कर्णवत्यां मम निवासावसरे मम निवासस्थलं स्वयमागत्य परिमलप्रकाशने बहून् विचारान् परिचाय्य मम भुजास्फालनं कृत्वा प्रोत्साहितवते श्रीहिमांशुजोशिने च ।
बेङ्गळूरवीये न्याषनल्कालेज के प्राचार्यस्तत्रभवान् “विद्यानिधि" बिरुदाति: के.एस्. कण्णन्वर्यो गालोडितपूर्वकमस्यां कृतौ निक्षिप्त-व्याकरणाञ्जनपूतकटाक्षः सन् भाजनमस्ति मदीयाया अनल्याया: कृतज्ञताया।
मन्त्रालयीयस्य राघवेन्द्रमठस्य पीठाधिपतीनां थीथी १०८ श्री सुशमीन्द्रतीर्थश्रीपादानां तथा तत्करकमलसंजातानां श्रीश्री १०८ श्रीसुयतीन्द्रतीर्थथीपादानां पादकमलयोः सादरं प्रणामान् समर्पयामि।
तेषामादेशानुसारेण तदाप्तकार्यदर्शी तत्रभवान् श्रीमान् राजा एस्. राजगोपालाचार्यवर्यः मूर्त इव ग्रन्थप्रकाशनोत्साहो विराजते। ग्रन्थान् रचयितॄन् प्रोत्साहयन् ग्रन्थप्रकाशनेन रचनाया: फलं लोकम् उपसर्पयंश्चेष महाभागः सूक्ष्मां दृष्टिं बिभ्राणो ग्रन्थान् कर्तृणां मादृशां कृतज्ञताया: पात्रमिति नापेक्षते किल
Arc/p