________________
फक्किकासमन्वित-दीपिकाव्याख्यासमेतः • ४९ अन्वयव्यतिरेकि लक्षयति-अन्वयेनेति । हेतुसाध्ययोर्व्याप्तिः अन्वयव्याप्तिः । तदभावयोर्व्याप्तिः व्यतिरेकव्याप्तिः ।
हेतुसाध्ययोरिति-धूमो व्याप्यः, वह्निापकः, वल्यभावो व्याप्यः, धूमाभावो व्यापकः, एते अन्वयव्यतिरेकव्याप्ती बोध्ये ।
केवलान्वयिलक्षणम्] अन्वयमात्रव्याप्तिकं केवलान्वयि । यथा घटोऽभिधेयः प्रमेयत्वात् पटवत् । अत्र प्रमेयत्वाभिधेयत्वयोर्व्यतिरेकव्याप्ति स्ति, सर्वस्यापि प्रमेयत्वादभिधेयत्वाच्च ।
केवलान्वयिनो लक्षणमाह-अन्वयेति । केवलान्वयिसाध्यकं लिङ्गं केवलान्वयि । अत्यताभावाप्रतियोगित्वं केवलान्वयित्वम् । केवलान्वयि उदाहरति-'घटोऽभिधेयः-प्रमेयत्वाद्' इति । ईश्वरप्रमाविषयत्वं सर्वपदाभिधेयत्वं च सर्वत्रास्तीति व्यतिरेकाभावः ।
केवलेति-केवलान्वयि साध्यं यस्य तत् । ईश्वरस्य प्रमाविषयत्वं सर्वपदानाम् अभिधाविषयत्वं च सर्वत्रास्ति । अभिधा शब्दशक्तिः ।
केवलव्यतिरेकिलक्षणम्] व्यतिरेकमात्रव्याप्तिकं केवलव्यतिरेकि । यथा पृथिवी इतरेभ्यो भिद्यते गन्धवत्त्वात् । यद् इतरेभ्यो न भिद्यते न तद् गन्धवत्, यथा जलम् न चेयं तथा, तस्मान्न तथेति । अत्र यद् गन्धवत् तदितरभिन्नमित्यन्वयदृष्टान्तो नास्ति पृथिवीमात्रस्य पक्षत्वात् ।
केवलव्यतिरेकिणो लक्षणमाह-व्यतिरेकेति । केवलव्यतिरेकि उदाहरति-पृथिवीति । ननु 'इतरभेदः प्रसिद्धो न वा ? आये यत्र
५० • तर्कसंग्रहः प्रसिद्धस्तत्र हेतुसत्त्वे अन्वयित्वम्, असत्त्वे असाधारण्यम् । द्वितीये साध्यज्ञानाभावात् कथं तद्विशिष्टाऽनुमितिः ? विशेषणज्ञानाभावे विशिष्टज्ञानानुदयात् । प्रतियोगिज्ञानाभावाद् व्यतिरेकव्याप्तिज्ञानमपि न स्याद् इति चेत् ? न, जलादित्रयोदशान्योन्याभावानां त्रयोदशसु प्रत्येकं प्रसिद्धानां मेलनं पृथिव्यां साध्यते । त्रयोदशत्वावच्छिन्नसाध्यस्य एकाधिकरणवृत्तित्वाभावाद् न अन्वयित्वासाधारण्ये । प्रत्येकाधिकरणप्रसिद्धा साध्यविशिष्टानमितिः । साध्याभावव्यापकीभूताभावप्रतियोगित्वम् इति । व्यतिरेकव्याप्तिनिरूपणं च यदितरेति ।
केवलव्यतिरेकिण उदाहरणमाह-पृथिवीति । अत्र पृथिवीं पक्षीकृत्य इतरभेदः साध्यते गन्धवत्त्वेन हेतुना । यत्र यत्र इतरभेदाभावः तत्र तत्र गन्धाभावः इति व्यतिरेकव्याप्तिः । उदाहरणं, यद् गन्धवत्त्वेन हेतुना इतरभेदाभाववत् तत् गन्धाभाववत्, यथा जलम् । अयमर्थः-यादृक् स्वाश्रयसंयोगसम्बन्धेन गन्धवत्त्वं जले ताग इतरेष्वपि वर्तते, अतो न इतरभिन्नत्वम् । इयं पृथिवी-तथा इतरभेदाभावव्यापकगन्धाभाववती न, तस्माद् इतरभेदवती एवेयम् । ननु अनुमिते: पूर्वम् इतरभेदः प्रसिद्धो वा नास्ति ? प्रसिद्धश्चेत् तर्हि यत्र आश्रयविशेषे प्रसिद्धः, तत्र गन्धवत्त्वे हेतौ सति अन्वयित्वं स्यात्, केवलं व्यतिरेकव्याप्तिरेव न स्यात् । हेतोरसत्त्वे तु हेतौ असाधारण्यदोषः स्यात् । सर्वसपक्षव्यावृत्तोऽसाधारणः । अथ अनुमितेः पूर्वम् इतरभेदोऽप्रसिद्धश्चेत् तदा साध्यम इतरभेदः, तस्य तु ज्ञानमेव नास्ति तर्हि कथं साध्यविशिष्टानुमितिः ? विशेषणेत्यादि सुगमम् । अन्यच्च इतरभेदाभावस्य प्रतियोगी इतरभेदः, तस्य ज्ञानाभावात् व्यतिरेकव्याप्तिज्ञानमपि न स्यात् । व्यतिरेकव्याप्तेर्लक्षणं साध्याभावः इतरभेदाभावः, तस्य व्यापकीभूतो योऽभावः गन्धाभावः, तस्य प्रतियोगित्वं गन्धे इति । अत्रोच्यते जलादीतिजलाष्टकं गुणकर्मसामान्यविशेषसमवायपञ्चकं च एते त्रयोदश, तत्र त्रयोदशान्योन्याभाव: एकत्र नायाति, किन्तु एकत्र द्वादश द्वादश एवं त्रयोदशसु त्रयोदशापि । अथ पृथिव्यां तेषां मेलनं साध्यते । शेषं सुगमम् ।
[पक्षसपक्षविपक्षलक्षणम्] सन्दिग्धसाध्यवान् पक्षः । यथा धूमवत्त्वे हेतौ