________________
७८
प्रस्तावः चतुर्थः
प्रतिभावा अनेके स्यु-विषयैरात्मनिर्मिताः । जानन्ति प्रतिभावेभ्योऽभिप्रायं धीधना निजम् ॥१॥
वस्तुतस्तु निरोद्धव्य-मभिप्रायप्रवर्तनम् । प्रतिभावावलोकेन तद्द्बोधस्सुकरो भवेत् ॥२॥
विषयैर्भावितं चेतो ददात्येव प्रतिक्रियाम् । संसिक्तो धृतधाराभिस्तपनः फूत्कृतिं यथा ॥३॥
अभिप्रायात्तथाऽर्थानां घटनाच्च वियुज्यते । जीवस्तदा न जायन्ते प्रतिभावा प्रतिक्रियाः ॥४॥
अभावः प्रतिभावानां परमाऽस्ति दशाऽऽत्मनः । समाधिर्वा विशुद्धिर्वा सिद्धिर्वेयं निरुच्यते ॥५॥
कारणत्रयतो दुष्टाः प्रतिभावा भवन्त्यमी । कर्मणामुदयात् पूर्व-संस्काराद् दुर्निमित्ततः ॥६॥
श्रीसंवेगरतिः