________________
धर्मस्य विषये चित्तं यथाबोधं नियोजयन् । प्रशस्यां तनुते जीव-स्सहज भाव्यमानताम् ॥९७॥
धर्मस्य विषयेऽपि स्या-दभिप्रायप्रवर्तनम् । धर्मार्थघटनाऽपि स्या-दन्तरंगसुखावहा ॥९८॥
धर्मं चानुसरन्नव्यः प्रतिभावोऽपि संभवेत् । तदत्था धर्मविस्तार-कारिणी च प्रतिक्रिया ॥९९॥
अशुभाद्विषयाज्जाता दुष्टा भवपरम्परा । शुभाद्धि विषयाज्जाताद् धर्माद् ध्वस्ता भवेद् ध्रुवम् ॥१००॥
वर्धमानो विशद्धश्चाऽभिप्रायो धर्मगोचरः । विषयाविषयो भूयाद् धर्मसिद्धिर्भवेत्तदा ॥१०१॥
अनुकूलत्वधीहे प्रतिकूलत्वधीरपि । घटनाऽभावतोऽर्थानां न भवेद् द्वन्द्वनाशतः ॥१०२॥
७४
श्रीसंवेगरतिः