________________
५४
आकर्षो योऽनुकूलेषु प्रतिकूलेषु त्रस्तता । तदर्थघटनं नाना- विचाराणां प्रसूतिकृत् ॥३७॥
व्यक्तेश्च वस्तुनो नाम-ग्राहं संग्रह - निग्रहे । भृशं चित्तप्रवाहो यस्स प्रतिभाव उच्यते ॥३८॥
तत्र तत्र प्रसंगेषु तथा चित्तप्रवाहिता । प्रतिभावः प्रतिव्यक्ति प्रतिवस्तु च भिद्यते ॥ ३९ ॥
ततो निर्मीयते वाणी तस्संजायते क्रिया । आहत्य प्रतिभावेभ्यो जाता तेन प्रतिक्रिया ॥४०॥
रसे बन्धस्थितौ चैव कर्मणां प्रतिभावतः । प्रतिक्रियाकृतो बन्धः प्रदेशे प्रकृतावपि ॥४१॥
रसस्येव स्थितेर्बन्धः प्रतिभावाद् भवन्नपि । रसस्येवात्मनः शक्तौ बाधाकृन्न विशेषतः ॥४२॥
श्रीसंवेगरतिः