________________
तृतीयः प्रस्तावः
विषयग्रहणं तत्र स्वाभिप्रायस्य योजनम् । तदर्थघटनञ्चैव भाव्यमानत्वलक्षणम् ॥१॥
मतिज्ञानं श्रुतज्ञानं यथास्वं बोधदायकम् । ज्ञानावरणकृत्कर्म-क्षयोपशमनिर्मितम् ॥२॥
इन्द्रियैर्मुख्यतो ज्ञानं मतिज्ञानेन जायते । वस्तुनो गुणधर्माणाम्-आंशिकावगमात्मकम् ॥३॥
त्वचा जिह्वा तथा नासा नेत्रे कर्णावितीन्द्रियैः । निवृत्तिः करणं लब्धिश्चोपयोग इति स्थितैः ॥४॥ युग्मम्
उपयोगस्त्विह ज्ञेय-स्तत्तदिन्द्रियगोचरः । चक्षाह्यं यथा रूपं न च स्पर्शरसादिकम् ॥५॥
सत्यपि जीवचैतन्ये नेन्द्रियाणि स्वभावतः । स्वकीयविषयादन्यत् संविदन्ति कदाचन ॥६॥
श्रीसंवेगरतिः