________________
प्रतिभावो यथाच्छंदं योऽपि पूर्वं सहोदभूत् । स किञ्चिद् वश्यतां याति उत्तमानुभवादितः ॥४३॥
मनुष्यत्वादिसामग्री महापुण्येन लभ्यते । यदाहुर्ग्रन्थकारास्तद् निमित्तोत्तमताश्रयम् ॥४४॥
अद्य यावद्धि जीवेन यच्च यावच्च निर्मितम् । दुःखं चित्ते तदुत्थानं भाव्यमानत्वतोऽभवत् ॥४५॥
ननं शस्त्रक्रियाऽवन्ध्या कर्तव्याऽस्यैव संप्रति । चिकित्साकृज्जिनेन्द्रोऽत्र कृपापीयूषसागरः ॥४६॥
४०
श्रीसंवेगरतिः