________________
आत्माऽयं मूलरूपेण केवलज्ञानतेजसा । भासते निस्तुलस्तत्र प्रतिभावादिपारगः ॥३१॥
मोक्षो जीवस्वभावोऽस्ति विभावोऽस्ति भवः पुनः । विभावस्य दशा ज्ञेया भाव्यमानत्वप्रक्रिया ॥३२॥
विषयैर्विषयेष्वेव विषयासंगवर्धिका । आत्मनश्चेतनाऽनादिः संलग्ना भाव्यमानता ॥३३॥
जायते कोमलैस्स्पशैं रसैस्सुस्वादशालिभिः । सौरभैस्सोन्मदै रूपै-दिव्यैर्मिष्टैस्स्वरैश्च सा ॥३४॥
जायते कर्कशस्पर्शे रसैश्च कटुतामयैः । दुर्गन्धैः क्रूररूपैश्च खरैश्शब्दैश्च सा तथा ॥३५॥
कषायैरपि प्रायेण दृश्यते भाव्यमानता । क्रोधेन चाभिमानेन मायया लोभतस्तथा ॥३६॥
३६
श्रीसंवेगरतिः