________________
द्वितीयः प्रस्तावः
अनाद्यनन्तसंसारे भ्राम्यतां दुःखपूर्वकम् । जीवानां विषये मुख्यं नियमत्रयमुच्यते ॥१॥
असंख्यातस्वरूपेण भवत्येव प्रतिक्षणम् । निमित्तानामुपस्थानं नियमः प्रथमोऽस्त्ययम् ॥२॥
व्यक्तिवस्तुप्रसङ्गायै-निमित्तैरभिभूतता । आत्मनि संभवत्येव द्वितीयो नियमोऽस्त्ययम् ॥३॥
तैस्तैः प्रभावितो जीवो प्रतिभावाश्रयो भवेत् । प्रतिक्रियां तथा दद्याद् नियमोऽयं तृतीयकः ॥४॥
स्थावरेषु निमित्तानां का नाम समुपस्थितिः । इति प्रश्ने विचार्यन्तां प्रकृतिर्मानवा अपि ॥५॥
पृथिव्यां भूमिकंपादिर्बाधा नैसर्गिकी भवेत् । कूपादिखननाद्वाधा भवेन् मानवनिर्मिता ॥६॥
श्रीसंवेगरतिः