________________
२४
आत्मानं तु स्पृशत् कर्म प्रकृत्यष्टकभेदवत् । आत्मनो गुणघाती स्याद् मुखे न्यस्तं विषं यथा ॥६७॥
कर्मणा ह्यात्मशक्तीनां पराभूतिः पराऽभवत् । कर्मसाम्राज्यनाशार्थं युज्यते परिवर्तनम् ॥६८॥
प्रथमं ह्यत्र कर्तव्यं संस्कारे परिवर्तनम् । आत्मनः पुरुषार्थेण साध्यमानं फलप्रदम् ॥६९॥
श्रीसंवेगरतिः