________________
भावानामनुभूतानां योग्यता या पुनर्भवे । सैव संस्कारशब्देन वर्ण्यते धर्मदेशकैः ॥६१॥
तन्निमित्तानुगामित्वं पुनरावर्तनाश्रयम् । कर्मोदयवशित्वं च संस्कारस्यास्ति लक्षणम् ॥६२॥
संस्कारः शरणीभाव उदयापन्नकर्मणाम् । धर्मेण परिहर्तव्यो निःसत्त्वोऽयं पराभवः ॥१३॥
आत्माऽस्ति कर्मतो भिन्नः शद्धचैतन्यधारकः । कर्माऽस्ति चात्मनो भिन्नं सम्पूर्ण जडताश्रयम् ॥६४॥
आत्मा कर्मविहीनः स्यात् तदा सौख्यमनन्तकम । कर्म चात्मविहीनं स्यात् तदा जाड्यमनारतम् ॥६५॥
आत्मानमस्पृशत् कर्म मतं कार्मणवर्गणा । निष्फलं निष्प्रभावं तद् मुखेऽन्यस्तं विषं यथा ॥६६॥
श्रीसंवेगरतिः