________________
दुःखमात्मन्यविश्वासो दुःखं विश्वासभंजनम् । दुःखं हि याचनाभंगो दुःखं दाने तिरस्क्रिया ॥३७॥
असुरक्षितता दुःखं दु:खं चैकाकिता भवे । दुःखमादरवैधुर्यं दुःखं दुर्व्यवहारतः ॥३८॥
असंख्येयप्रकारेण विचित्रं दु:खगह्वरम् । जीवं विभ्रामयत्येव साक्षाद् दुर्दैवलक्षणम् ॥३९॥
दःखैरभ्यागतैश्चित्तं बाध्यते कंटकैरिव । असह्या किल तज्जन्या सदाऽन्तर्दूयमानता ॥४०॥
दुःखानां कारणं मूलं कर्मणोऽस्तित्वमात्मनि । तेषां संपूर्णनाशेन दुःखनाशः कृतो भवेत् ॥४१॥
कदा ह्यनादिसन्तानः कर्मसंघो विनंक्ष्यति । भविष्यति कदा पूर्णो दुःखनाशः सनातनः ॥४२॥
OM
श्रीसंवेगरतिः