________________
कर्मप्राबल्यनाशाय यदा यच्चिन्तयेन्मनः । स्वभूमिकानुसारेण सद्विचार: स कीर्तितः ॥२५॥
मिथ्यात्वे यद्यपि सम्यग्-विचाराणां न हेतुता । मन्दत्वनिष्ठहेतुत्वा-वच्छिन्ने न विरुध्यते ॥२६॥
अकषायवशित्वेन विषयासक्तिमान्द्यतः । अज्ञानोपरमात् कार्यं मनोयोगप्रवर्तनम् ॥२७॥
दु:खं द्वेषश्च चित्तस्य प्रवाहद्वयमुद्धतम् । आर्तं रौद्रं च तद्ध्यानं ध्रुवं जीवविडम्बनम् ॥२८॥
अनिच्छाविषयं स्वास्थ्य-हारकं द्वेषकारकम् । दुःखमेव हि संसार-मूलं मोहनिबन्धनम् ॥२९॥
दुःखं चित्तस्य वैक्लव्यं दुःखं चित्तस्य भग्नता । दःखं चित्तस्य विद्धत्वं दुःखं चित्तस्य बाधनम् ॥३०॥
श्रीसंवेगरतिः