________________
यद्यहं तमवाप्नोमि तन्मे जन्मकृतार्थता । तन्मार्गस्यावबोधाय जागर्तु पात्रता मयि ॥१९॥
रोगे रोगत्वधीर्यद्वद् भवेद् भैषज्यकारणम् । एवं दोषत्वधीर्दोषे तन्निवारणकारणम् ॥२०॥
मिथ्यात्वमोहनीयजो विचारश्चारुचित्तजः । लभ्यते विशदानन्दो येन सद्भाग्यवानसौ ॥२१॥
कर्मानुवर्तितो जीव-परिणामो विसंगतः । धर्मानुवर्तिताज्जीव-परिणामाद्धि बाध्यते ॥२२॥
तत्कर्मोदयवैफल्य-साधनं तत्त्वचिन्तनम् । यथा येन च कर्तव्यं तथा तेन प्रदर्श्यते ॥२३॥
क्षायोपशमिको धर्मा-भ्यासजन्यो निरन्तरः । क्रियानिष्ठो विचारस्स्याद् दोषहृद् गुणनिर्मितिः ॥२४॥
श्रीसंवेगरतिः