________________
विचारैः कर्मणां बन्धो बर्द्धस्तैश्च विचारणा । अन्योऽन्याश्रयसम्बन्धा-देवं भूयो भवभ्रमः ॥१३॥
अपूर्वकरणादाद्या-दात्माऽयं कर्मबाधिकाम् । उत्तमां भावनां चित्ते धारयत्यात्मशोधिकाम् ॥१४॥
रागद्वेषौ कथं मे स्तः तदारम्भः कुतोऽभवत् । ततोऽनर्थाः कियन्तः स्युः तन्नाशश्च कथं भवेत् ? ॥१५॥
रागद्वेषवशीभूताऽवस्था किं सौख्यकारणम् । अथवा तद्विसर्गेण वास्तवस्स्यात्सुखोद्गम: ? ॥१६॥
रागद्वेषस्वरूपोऽहं ताभ्यां भिन्नोऽस्मि वा किमु । दुःखानामागमस्सर्वो मय्ययं किन्निबन्धनः ? ॥१७॥
तद्भिन्नोऽस्मि ततः किं तौ लग्नौ मां भूतचारिणौ । नूनं रागादितोऽन्योऽस्ति कश्चिन् मार्गः सुखावहः ॥१८॥
श्रीसंवेगरतिः