________________
४
पूर्वबद्धापहारोऽपि धर्मस्यास्ति प्रयोजनम् । नैर्बल्यं बध्यमानानां कर्मणां धर्मतो भवेत् ॥७॥
कर्मणामनुबन्धाख्यां पारम्पर्यविधायिनीम् । शक्तिं च धर्मसातत्यात् करोति शिथिलां कृती ॥८॥
काययोगो वचोयोगः कर्मणा योऽपि जायते । तत्र धर्मप्रभावेण शुभत्वस्थापना भवेत् ॥९॥
केवलं यो मनोयोगस्तीव्रकर्मवशंवदः । तत्र सद्धर्मसंस्कारैः कर्तव्या प्रतिपालना ॥१०॥
श्रीसंवेगरतिग्रन्थः शुद्धभावविधायकः । मनोयोगामलीकार - कारणं तन्निरुच्यते ॥११॥
विचाराणामसंख्याना-मुत्थानं मोहनीयतः । निर्विवेकं यथाच्छन्दं भवेत् संसारवर्धकम् ॥१२॥
श्रीसंवेगरतिः