________________
१०६
समाधानमिदं ज्ञेयं सावधानैस्समासतः । मोहनीयोदयो दुःखं तदभावः सुखं मतम् ॥७॥
मोहनीयानुवेधेन सौख्यं यदपि जायते । बालानां मृत्तिकास्वाद - तुल्यत्वात्तन्न गण्यते ॥८॥
कर्मोदयानुविद्धत्वाद् विकृतां बोधपद्धतिम् । आत्मा संश्रितवान् तस्यास्सुखं दुःखं च जायते ॥९॥
मोहनीयांश एवास्ति दुःखं रोगस्तनाविव । स्वस्मादन्यस्वरूपेऽपि स्व-स्वरूपेण भासते ॥ १० ॥
चेतनायाः समुल्लासस्सुखस्यानुभवे भवेत् । चेतनायाश्च संकोचो दुःखस्यानुभवे भवेत् ॥११॥
चेतना स्थिरतां प्राप्ता कर्मणां विगमे सति । आत्मनो मूलरूपेण शुद्धं सौख्यं निगद्यते ॥१२॥
श्रीसंवेगरतिः