________________
संसारैकसमाधीनं चित्तमासीदनादितः । ग्रन्थानां मुहुरभ्यासात् तच्छुभाध्यासितं भवेत् ॥४९॥
यथा यथा भवेत् पाठस्तथा मिष्टो रसस्त्रवः । रसादेकाग्रतासिद्धि-रात्मशुद्धिस्ततः परा ॥५०॥
ग्रन्था हि तत्त्वचिन्तासु योजनीया स्थिरात्मना । स्मृत्येकगोचरा नैव विधातव्या मनीषिणा ॥५१॥
ये गुणा अवगम्यन्ते लभ्यन्ते ते कथं मया । दोषा ये केऽपि लक्ष्यन्ते त्याज्यन्ते ते कथंतया ॥५२॥
ज्ञेयं विज्ञाय कर्तव्ये समद्योगो विधीयते । इत्यादिभावनां धृत्वा स्वाध्यायस्सेव्यते सदा ॥५३॥
सुदेवे सद्गुरौ नित्यं सद्धर्मे करणं शुभम् । दान-शील-तपो-भावास्सदाचारो व्रतान्यपि ॥५४॥
श्रीसंवेगरतिः