________________
८८
श्रीयोगविंशिकाशास्त्रं यशोवृत्तिसमन्वितम् । स्थानादौ योगमिच्छादेस्तन्वत् स्वर्णं सुगन्धवत् ॥३१॥
योगबिन्दुर्महानिन्दुस्सकलां संश्रितः कलाम् । भव्यात्महृदयाम्भोधि-वेलोल्लासनतत्परः ॥३२॥
विलासायाऽष्टसिद्धीनां विनाशायाऽष्टकर्मणाम् । विभासायाऽष्टयोगानां योगदृष्टिसमुच्चयः ॥३३॥
श्रीप्रशमरतिग्रन्थात् प्रत्यहं च प्रतिक्षणम् । आत्माऽस्मि ह्यहमात्माऽस्मीतीयं जायेत जागृतिः ॥३४॥
आत्मानुभूतिविस्तारं ज्ञानसारं भजन्मनः । सात्त्विक लभते शुद्धां स्वयंसिद्धां प्रसन्नताम् ॥३५॥
आयुषः सफलत्वाय धर्मबिन्दुं समाश्रय । पीयूषाचाममात्रेण सौख्यं निर्व्ययमावहन् ॥३६॥
श्रीसंवेगरतिः