________________
।। मङ्गलवादः ॥
शङ्खेश्वरपुराधीशं श्रेयोवल्लीवनाम्बुदम् । विघ्नौघमत्तमातङ्ग-पञ्चास्यं श्रीजिनं भजे ||१||
अथ मङ्गलवादः प्रारभ्यते ।
तत्र मङ्गलमङ्गं, ग्रन्थः प्रधानं, समाप्तिः फलं, विघ्नध्वंसो द्वारमित्युदयनाचार्याः । २ अङ्गत्वं च यद्यपि न तावत् फलवत्सन्निधिमत्त्वे सति अफलत्वं, मङ्गलेऽफलत्वाभावात्, समाप्तिफलकत्वात् ।
नापि प्रधानफलातिरिक्तफलाजनकत्वं, मङ्गलेन प्रधानफलातिरिक्तस्य प्रधानस्यैव
जननात् ।
नापि प्रधानतत्फलातिरिक्तफलाजनकत्वं विघ्नध्वंसस्य तदुभयभिन्नस्य जननात् । तथापि अधिकाररूपकामनाविषय-प्रधान-तत्फलातिरिक्त-फलाजनकत्वमेवाङ्गत्वम् । विघ्नध्वंसकामना तु नाधिकाररूपा, यत्कामनया प्रवर्तते तस्या एवाधिकाररूपत्वात्, सा च प्रकृते समाप्तिकामनैव ।
न च एवं खादिरताङ्गं न स्याद् अधिकार - रूप-कामना-विषय-वीर्यलक्षण
१. अत्र 'वामेयम्' इति पदं हस्तप्रतौ दृश्यते तच्चाधिकमित्याभाति ।
२..... तत्पुनर्मुख्यलक्षणं यत्फलवत्त्वं तत्सन्निधावसंयुक्तं तदङ्गं स्यात्....। मीमांसा सूत्र ४ | ४ | ११ | ३४ || भाष्यम्— तत्पुनर्मुख्यलक्षणं यत्फलवत्त्वम्, यदन्यत् तत्सन्निधौ श्रूयते तत् तदङ्गम् ॥
રૂ. જ્યોતિષ્ટોમ સામયાગનો પ્રકાર છે. અગ્નિષ્ટોમ તેનો અંગભૂત યાગ છે. સોમયાગની સાત સંસ્થાઓ છે. તેમાં પ્રથમ અગ્નિષ્ટોમ પ્રકૃતિ છે અને ઉછ્યાદિ છ વિકૃતિ છે. અગ્નિષ્ટોમ પશુયાગ છે. પશુયાગ એટલે જેમાં પશુની આહુતિ આપવામાં આવે તે. આહુતિ