________________
प्रथमोऽध्यायः
कार्पूरास्तरवः स्फुटन्ति विकटैः कण्ठीरवाणां वै र्यस्याभाति तटेषु मौक्तिकनिधिः सा ताम्रपर्णी सरित् ॥' तृतीयो यथा—
विलासभूमिर्देवानां नृणां रोगास्पदं मुनेः । सदा पुष्पफलारामरम्यसानुः स पर्वतः ॥' चतुर्थो यथा
' सा तत्र चामीकररत्नचित्रैः प्रासादमालावलभीविटङ्कैः । द्वारार्गलाबद्धसुरेश्वराङ्का लङ्केति या रावणराजधानी ॥ प्रवर्तते कोकिलनादहेतुः पुष्पप्रसूः पञ्चमजन्मदायी तेभ्यश्चतुर्भ्योऽपि वसन्तमित्रमुदङ्मुखो दक्षिणमातरिश्वा ॥'
पूर्वापरयोः समुद्रयोर्हिमवद्विन्ध्ययोश्चान्तरमार्यावर्तः । तस्मिँश्चातुर्वर्ण्य चातुराश्रम्यं च तन्मूलश्च सदाचारः । तत्रत्यो व्यवहारः प्रायेण कवीनाम् ।
तत्र वाराणस्याः पुरतः पूर्वदेशः । यत्राङ्ग-कलिङ्ग-कोसल-तोसलोत्कलमगध मुद्गरक विदेह-नेपाल- पौढू-प्राग्ज्योतिषिक ताम्रलिप्तकमलदल-मल्लर्तक-सुब्रह्मब्रह्मोत्तरप्रभृतयो जनपदाः । बृहद्गृह-लोहितगिरिचकोर - दर्दुर- नेपाल- कामरूपादयः पर्वताः । शोणलोहितौ नदौ । गङ्गाकरतोयाकपिशाद्याश्च नद्यः । लवलीग्रन्थिपर्णागुरुद्राक्षाकस्तूरिकादीनामुत्पादः ।
माहिष्मत्याः पुरतो दक्षिणापथः । यत्र महाराष्ट्रमाहिष्मकाश्मक-वैदर्भकुन्तल - क्रथकैशिक- सूर्पारक- काञ्चि- केरल- काबेर - मुरल- वानवासकसिंहल - चोड - दण्ड- पाण्ड्य - वल्लव- गाङ्ग - नासिक्य - कौङ्कण- कोल्लगिरिवेल्लरप्रभृतयो जनपदाः । विन्ध्य-दक्षिण-पाद- माहेन्द्र-मलय- मेकलपालामञ्जर- श्रीसह्य पर्वतादयः पर्वताः । नर्मदा-तापी- पयोष्णी-गोदावरीभीमरथी-वेणी- जम्बुरा - तुङ्गभद्रा ताम्रपर्ण्यपलावती - रावणगङ्गाद्या नद्यः । तदुत्पत्तिर्मलयोत्पत्त्या व्याख्याता ।
देवसभायाः परतः पश्चाद्देशः । तत्र देवसभ - सुराष्ट्र - दासेरक-त्रवण
काव्यानुशासनम्
भृगु-कच्छक-कच्छीयानर्तार्बुद - ब्राह्मण - वाह - हय-यवनप्रभृतयो जनपदाः । गोवर्धन - गिरिनगर- देवसभमाल्यशिखरार्बुदोज्जयन्त शत्रुञ्जयादयः पर्वताः । सरस्वती - श्वभ्रवती- वार्तघ्नी-मही हिण्डवाद्या नद्यः । करीर - पील- गुग्गुलुखर्जूर-करभादीनामुत्पादः ।
८
पृथूदकात्परत उत्तरापथः । यत्र शक केकय - क्वाण - हूण- वनायुजकम्बोज - बाह्लीक- वल्हव - लम्पाक - कुलूतकी - रतंगण-तुवार- तुरुष्क-बर्बरहरहूर - कुहक्रस - हुडहंस मार्गर- मठ करकण्डप्रभृतयो जनपदाः । हिमालयजालन्धर - कलिन्देन्द्रकीलचन्द्राचलादयः पर्वताः । गङ्गा-सिन्धु-सरस्वतीशतद्रु-चन्द्र-भागा-यमुनैरावती- वितस्ता विपाशा- कुहू-देविकाद्या नद्यः । सरल-देवदारु-द्राक्षा-कुङ्कुम- चमराजिन - सौवीरस्रोतोऽञ्जन-सैन्धव-वैडूर्यतुरङ्गं - माणामुत्पादः । तेषां मध्ये मध्यदेश इति व्यवहारः ।
यदाह
‘हिमवद्विन्ध्ययोर्मध्यं यत्प्राग् विनशनादपि । प्रत्यगेव प्रयागाच्च मध्यदेशः स कीर्तितः ॥ ' तत्र ये देशाः पर्वताः सरितो द्रव्याणामुत्पादश्च तत्प्रसिद्धिसिद्धमिति न
निर्दिष्टम् ।
'द्वीपान्तराणां ये देशाः पर्वताः सरितस्तथा ।
नातिप्रयोज्याः कविभिरिति गाढं न चिन्तिताः ।'
विशसनप्रयागयोर्गङ्गायमुनयोश्चान्तरमन्तर्वेदिः । तदपेक्षया दिशो विभजेतेति केचित् । वयं तु ब्रूमस्तत्रापि महोदयं मूलमवधीकृत्य दिशो विभजेत । ताश्च चतस्त्र इत्येके । यथा
'पुत्रो रघुस्तस्य पदं प्रशास्ति महाक्रतोर्विश्वजितः प्रयोक्ता । चतुर्दिगावर्जनसंभृतां यो मृत्पात्रशेषामकरोद्विभूतिम् ॥' अष्टावित्यन्ये । यथा
'एकं ज्योतिर्दृशौ द्वे त्रिजगति गदितान्यब्जजास्यैश्चतुर्भि