________________
१३५
१३६
काव्यानुशासनम्
पञ्चमोऽध्यायः
किं नाङ्गानि तवातिथेयमसृजन्स्वस्वापतो याचितं संप्राप्ते मयि नैतदुज्झति कुचद्वन्द्वं पुनः स्पर्धताम् ॥' अथ विप्रलम्भमाह
औत्सुक्य-मद-ग्लानि-निद्रा-सुप्त-प्रबोध-चिन्तायासाश्रम-निर्वेद-मरणोन्माद-जडता-व्याधि-स्वप्नापस्मारादिव्यभिचारी संताप-जागर-कार्य-प्रलाप-क्षाम-नेत्रवचोवक्रता-दीन-सञ्चरणानुकार-लेखलेखनवाचन-स्वभावनिह्नववार्ताप्रश्न-स्नेहनिवेदन-सात्विकानुभवन-शीतप्रयोगसेवनमरणोद्यम-सन्देशदानाद्यनुभावो वियुक्तयोर्विप्रलम्भः ॥५॥
स चाभिलाषमानप्रवासभेदाद् द्विधा ॥६॥
दैवात्( पितृमातृस्वामि )पारवश्यादभिलाषविप्रलम्भो द्विधा ॥७॥
तत्र दैवाद्यथा'नगरपरिघदीधौँ बाहुदण्डौ ममैतो विजितकनककुम्भा सा च तस्याः कुचश्रीः । तव शिशिरसमीरश्चैष नीहारसार स्त्रितयमपि समेतं दुर्लभं रावणेन ।' पितृमातृपारवश्याद्यथा'ज्वलतु गगने रात्रौ रात्रावखण्डकलः शशी दहतु मदनः किं वा मृत्योः परेण विधास्यति । मम तु दयितः श्लाघ्यस्तातो जनन्यमलान्वया कुलममलिनं न त्वेवायं जनो न च जीवितम् ॥'
स्वामिपारवश्याद्यथा'स्मरनवनदीपूरेणोढा मुहुर्गुरुसेतुभि र्यदपि विधृता दुःखं तिष्ठत्यपूर्णमनोरथा । तदपि लिखितप्रख्यैरङ्गैर्मुहुर्मुहुरुन्मुखा नयननलिनीनालानीतं पिबन्ति रसं प्रियाः ॥' मानः प्रणयभाभ्यां द्विधा ॥७॥ तत्र प्रणयभङ्गाद्यथा'गतप्राया रात्रिः कृशतनुशशी शीर्यत इव प्रदीपोऽयं निद्रावशमुपगतो घूर्णित इव । प्रणामान्तः कोपस्तदपि न जहासि क्रुधमहो स्तनप्रत्यासत्त्या हृदयमपि ते चण्डि कठिनम् ॥' ईर्ष्णया यथा'संध्यां यत्प्रणिपत्य लोकपुरतो बद्धाञ्जलिर्याचसे धत्ते यच्च नदीं विलज्जशिरसा तच्चापि सोढं मया । श्रीर्याताऽम्बुधिमन्थने यदि हरिं कस्माद्विषं भक्षितं मा स्त्रीलम्पट मां स्पृशेत्यभिहतो गौर्या हर: पातु वः ॥' कार्याच्छापादेवात्पारवश्याच्च प्रवासः ॥८॥ कार्याद्यथा'याते द्वारवतीं तदा मधुरिपौ तद्दत्तस( झ )म्पानतां कालिन्दीतटरूढवञ्जुललतामालिङ्ग्य सोत्कण्ठया । तद्गीतं गुरुबाष्पगद्गदगलत्तारस्वरं राधया येनान्तर्जलचारिभिर्जलचरैरप्युक्तमुत्कूजितम् ॥' शापाद्यथा
१. 'नागानि' इति पाठः । २. 'त्रिधा' इति तूचितम् ।