________________
चतुर्थोऽध्यायः
'यो राज्यमासाद्य भवत्यचिन्तः समुद्रतारम्भरतः सदैव । समुद्रतारं भरतः स दैवप्रमाणमारभ्य पयस्युदास्ते ॥' द्वितीयचतुर्थयोरावृत्त्या सन्दष्टकम् ॥२२॥
यथा
'अमरनगरस्मेराक्षीणां प्रपञ्चयति स्फुरत् सुरतरुचये कुर्वाणानां बलक्षमरंहसाम् । इह सह सुरैरायान्तीनां नरेश नगेऽन्वहं सुरतरुचये कुर्वाणानां बलक्षमरंहसाम् ॥' तृतीयचतुर्थयोरावृत्त्या पुच्छम् ॥२३॥ यथा'उत्तुङ्गमातङ्गकुलाकुलो यो व्यजेष्ट शत्रून् समरे सदैव । स सारमानीय महारिचक्रं संसारमानी यमहारिचक्रम् ॥' चतुर्णामपि परस्परावृत्त्या पङ्क्तिः ॥२४॥ यथा'"रम्भारामा कुरु बककमला रम्भारामाकुरुबककमला । रम्भारामाकुरुबककमला रम्भारामाकुरुबककमला ।' प्रथमचतुर्थयोद्वितीयतृतीययोरावृत्त्या परिवृत्तिः ॥२५॥
१३२
काव्यानुशासनम् ''मुदा रतासौ रमणी यता यां स्मरस्यदोऽलं कुरुतेन वोढा । स्मरस्यदोऽलंकुरुतेऽनवोढामुदारतासौ रमणीयतायाम् ॥' प्रथमद्वितीययोस्तृतीयचतुर्थयोरावृत्तिर्युग्मकम् ॥२६॥ यथा'विभाति रामापरमारणस्य विभाऽतिरामा परमा रणस्य । सदैवतेजोर्जितराजमाना सदैव तेजोऽर्जितराजमाना ॥' पादभागयमकानि अनयैव रीत्याऽनेकधा भवन्ति । तानि च काव्यहृदयशङ्कत्वान्नोक्तानि ।। भिन्नरूपाणां शब्दानामेकार्थतेव पुनरुक्तवदाभासः ॥२७॥ यथा'स त्वं सम्यक् समुन्मील्य हृदि भासि विराजसे । द्विषामरीणां त्वं सेनां वाहिनीमुदकम्पयः ॥' इति श्रीवाग्भटविरचितायामलङ्कारतिलकाभिधानस्वोपज्ञकाव्यानुशासनवृत्तौ शब्दालङ्कारविवेचनश्चतुर्थोऽध्यायः ।
यथा
१. 'स्मेराक्षीणां' इति शोभनम् । २-३. 'मासीय' इति पाठ आसीत् । तथापि रुद्रटालङ्कारस्थोऽयं पाठ: साधीयान्धृतः । ४. अस्य श्लोकस्यार्थोऽनवगतः ।
१. रुद्रटालङ्कारस्थोऽयं श्लोकः । २. सप्तम्यन्तत्वेन दोषाभावः । ३. अरीणामिति सेनाविशेषणम् ।