________________
१२७
१२८
काव्यानुशासनम्
चतुर्थोऽध्यायः
पदात्मकत्वाद्वाक्यस्य तस्याव्या(प्या)वृत्तिर्यथा'त्वमेकश्चेतसि न चेत्तपोभिस्तदलं नृणाम् ॥'
एकेनानेकस्यार्थस्य युगपदुक्तिः श्लेषो भङ्गाभङ्गाभ्यां द्विधा ॥१४॥
एकेन पदेन वाक्येन वा अनेकस्य द्वयोस्त्र्यादीनां वा अर्थानामभिधानं श्लिष्यन्ति शब्दा अत्रेति श्लेषः । हरिप्रभृतयः शब्दा अनेकार्थाभिधायिनः सन्तीत्याह
युगपद् एकस्मिन् प्रयोगे । स च भङ्गाभङ्गाभ्यां द्विधा । भङ्गश्लेषोऽभङ्गश्लेषश्च । तत्र खण्डनाद्भङ्गश्लेषः । स वर्ण-लिङ्गवचन-विभक्तिप्रत्यय-पद-भाषा-भेदैरनेकधा भवति । तत्र वर्णश्लेषो यथा
'प्रतिकूलतामुपगते हि विधौ विफलत्वमेति बहुसाधनता । अवलम्बनाय दिनभर्तुरभून्न पतिष्यतः करसहस्रमपि ॥' अत्र विधिविधुश्चेति इकारोकारयोर्वर्णयोः श्लेषः । 'लिङ्गश्लेषो यथा'भक्तिप्रहविलोकनप्रणयिनी नीलोत्पलस्पधिनी ध्यानालम्बनतां समाधिनिस्तै ते हितप्राप्तये । लावण्यस्य महानिधी रसिकतां लक्ष्मीहशोस्तन्वती युष्माकं कुरुतां भवार्तिशमनं नेत्रे तनुर्वा हरेः ॥' वचनश्लेषो यथा
प्राज्यप्रभावः प्रभवो धर्मस्यास्तरजस्तमाः । ददतां निर्वृतात्मान आद्योऽन्येऽपि मुदं जिनाः' । अत्रैकपक्षे एकवचनम् । द्वितीयपक्षे बहुवचनम् ।
स्यादीनां त्यादीनां च भङ्गाद्विभक्तिश्लेषो यथा'विषं निजगले येन 'चक्रे न भुजगप्रभुः । 'देहेयेनाङ्गजोदग्धो( ? )जाया च स जयत्यजः ॥' प्रकृतिश्लेषो यथा'विहितापर चि)तिर्महीयसां द्विषतामाहितसाध्वसो बलैः । भव सानुचरस्त्वमुच्चकै महतामप्युपरि क्षमाभृताम् ॥' अत्रापचितिरिति चायेश्चिनोतेश्च रूपम् । प्रत्ययश्लेषो यथा'येन ध्वस्तमनोभवेन बलिजित्कायः पुरास्त्रीकृतः । अत्र अस्त्रीकृत: स्त्रीकृतश्चेति च्चीङीप्रत्यये श्लेषः । पदश्लेषो यथा''जननीतिमुदितमनसा नित्यं सुस्वामिना कृतानन्दा । सा नगरी नगतनया गौरीव मनोहरा भाति ॥' संस्कृतप्राकृतमागधपिशाचसूरसेनापभ्रंशभाषाणां सङ्करे भाषाश्लेषः । तत्र संस्कृतप्राकृतयोर्यथा'सरले साहसरागं परिहर रम्भोरु मुञ्च संरम्भम् । विरहं विरहायासं सोढुं तव चित्तमसहं मे ॥' संस्कृतमागधयोर्यथा'शूलं शलन्तुशं वा विशन्तु शबला वशं विशङ्का वा । अशमदशं दुःशीला दिशन्ति काले खला अशिवम् ॥'
१. 'लिङ्गवचनयोः श्लेषो यथा-' इति काव्यप्रदीपे। २. 'प्राज्यप्रभाः, वः, निर्वृतात्मा नः' इत्यपि पदच्छेदः ।
१. 'चके' इति कृधातोलिटि चक्रशब्दात्सप्तम्यां च समानम् । २. 'देहे' इति दहधातोलिटि, देहशब्दस्य सप्तम्यां च । ३. दमयन्तीकथास्थोऽयं श्लोकः ।