________________
१२०
काव्यानुशासनम् वाचा वचनेनापि भत्सितं निराकृतमसौहृदमवात्सल्यं येन । यस्य पार्श्वजिनस्य स्फुटा प्रकटा हारप्रभा कीतिरभात् । कथम्भूता सकलेऽवनितले दत्तेशहासप्रभा ईशस्य हासप्रभा धवलितेत्यर्थः । सा दत्ता यया सा तथोक्ता ।
स्वस्तिकबन्धो यथा'प्रसीद स सदा वीर प्रभो धीर रजोम्बुद । प्रति मां ददस्व श्रेयः प्रधानायय सद्यशः ॥'
हे वीर स प्रसिद्ध । सेति वीरस्य विशेषणम् । प्रसीद । कथम्भूत । रजोम्बद । तथा मां प्रति श्रेयो ददस्व । प्रधान उत्तम । तथा सद्यश आयय प्रापय । 'अय गतौ' । अयमानं प्रयुक्ते आययति ।
आदिशब्दादष्टार-द्वादशार-चक्रसप्तचक्रिक-गोमूत्रिका-नन्द्यावर्तभृङ्गार-चामर-घण्टाप्रभृतीनि तत्सदृशनामान्यूह्यानि ॥
गतिचित्रं सर्वतोभद्र-गतप्रत्यागत-गोमूत्रिकाधभ्रम-रथपदतुरगपद-गजपदादिभेदैरनेकधा भवति ॥३॥
तत्र सर्वतोभद्रं यथा'देवाकानिनि कावादे वाहिकास्वस्वकाहि वा । काकारेभभरे काका निस्वभव्यव्यभस्वनि ॥ किरातार्जुनीय (१५.२५) वारणागगभीरा सा साराभीगगणारवा । कारितारिवधा सेना नासेधा वरितारिका ॥' (शिशुपालवध १९.४४) एवमन्यदपि ॥ हुस्वादिस्वरनियमो स्वरचित्रम् ॥४॥ यथा'जय मदनगजनमन वरकमलभगतमन । गतजनन मदमरण भव भयगनरशरण ॥' अत्र सर्वत्र हुस्वोऽकारः । एवं ह्रस्वेनेकारादिना दीर्घेणाकारादिना