________________
काव्यानुशासनम्
तृतीयोऽध्यायः
उद्देशक्रमेणार्थानां प्रतिनिर्देशो यथासंख्यम् ॥३८॥ यथा'मृगमीनसज्जनानां तृणजलसन्तोषविहितवृत्तीनाम् । लुब्धकधीवरपिशुना निष्कारणवैरिणो जगति ॥' साभिप्रायविशेषणैर्भक्तिः परिकरः ॥३९॥ यथा'वल्मीकः किमुतोद्धृतो गिरिरियत् कस्य स्पृशेदाशयं त्रैलोक्यं तपसा जितं यदि मदो दोष्णां किमेतावता । सर्वं साध्वथ (सं) रुणद्धि विरहक्षामस्य रामस्य चेत्त्वहन्ताङ्कितवालिकक्षरुधिरक्लिन्नाग्रपुडं शरम् ॥' वस्तुसम्पत्त्या महदुपलक्षणेन च वर्णनमुदात्तम् ॥४०॥ यथा'उच्चीयन्तेऽस्य वेश्मन्यवि...रहिते यत्नतः श्रोत्रियाणां यत्र श्यामाकबीजान्यपि चटकवधूचञ्चकोटिच्युतानि । यस्मिन्दातर्यकस्माच्चटुलबहुकराकृष्टहारावचूलभ्रष्टास्तत्रैव दृष्टा युवतिभिरलसं चूर्णिता मौक्तिकौघाः ॥' यथा'मुक्ताः केलिविसूत्रहारगलिताः सम्मार्जनीभिर्हताः प्रातः प्राङ्गणसीम्नि मन्थरचलद्वालाज़िलाक्षारुणाः । दूराद्दाडिमबीजशङ्कितधियः कर्षन्ति केलीशुका यद्विद्वद्भवनेषु भोजनृपतेस्त्वत्त्यागलीलायितम् ॥' महदुपलक्षणं यथा
'तदिदमरण्यं यस्मिन्दशरथवचनानुपालनव्यसनी । निवसन्बाहुसहायश्चकार रक्षःक्षयं रामः' कार्यमारभमाणस्य दैवादुपायसंपत्तिः समीहितम् ॥४१॥ यथा'मनस्विनी वल्लभवेश्म गन्तुमुत्कण्ठिता यावदभून्निशायाम् । तावन्नवाम्भोधरधीरनादप्रबोधितः सौधशिखी चुकूज ॥" कारणभावेऽपि कार्योपक्षेपो विभावना ॥४२॥ यथा'अनाहूतसहायस्त्वं त्वमकारणवत्सलः । अनभ्यर्थितसाधुस्त्वं त्वमसम्बन्धबान्धवः ॥' यथा च'वनेचराणां वनितासखानां दरीगृहोत्सङ्गनिषक्तभासः । भवन्ति यत्रौषधयो रजन्यामतैलपूराः सुरतप्रदीपाः ॥' यत्र क्रियया परस्परं कार्यकारित्वं तदन्योन्यम् ॥४३॥ यथा'कण्ठस्य तस्याः स्तनबन्धुरस्य मुक्ताकलापस्य च निस्तुलस्य । अन्योन्यशोभाजननाद्बभूव साधारणो भूषणभूष्यभावः ॥'
नित्येनागन्तुना वाऽपरेण हर्षकोपादि यत्र तिरस्क्रियते तन्मीलितम् ॥४४॥
नित्येन यथा'तिर्यक्प्रेक्षिततरले सुस्निग्धे च स्वभावतस्तस्याः । अनुरागो नयनयुगे सन्नपि केनोपलक्ष्येत ॥' आगन्तुकेन यथा
१. 'रुक्तिः' इति काव्यप्रदीपे।