________________
तृतीयोऽध्यायः
सादृश्याद्भेदेनारोपो रूपकम् ॥८॥
सादृश्याद्धेतोर्भेदेन विषयविषयिणोनिर्देशेनारोपोऽतथाभूतेऽपि वस्तुनि तथात्वेनाध्यवसायो रूपकम् । सादृश्यादिति वचनादायुघृतमित्यादौ कार्यकारणभावादारोपे न रूपकम् । भेदग्रहणादभेदेनारोपेऽतिशयोक्तिरेव, न रूपकम् । तच्चैकानेक-माला-समस्त-व्यस्त-खण्डाखण्ड-युक्तायुक्तविषम-विशेष-हेत-श्लेषोपमा-व्यतिरेकाक्षेप-समाधान-रूपकत्वापह्नवरसना-परम्परितादिभेदैरनेकधा ।
तत्रैकविषयं यथाविश्वेभ्यो भूर्भुवःस्वःशतमखमुकुटश्लिष्टमुक्तामयूख स्नाताः श्रीनाभिसनोः क्रमनखमणयो मङ्गलानि क्रियासुः । येषामुत्सङ्गविद्यां शुचिरुचिलहरीताण्डवाडम्बरायां संक्रामन्दुग्धसिन्धोः स्मरति मुहुरसौ यामिनीकामिनीशः ॥' अनेकविषयम्'कामं संघटितेष्टकान्तविभवे राजत्तुलाकोटिके प्रोत्तुङ्गस्तनयुग्महेमकलशे तत्कायदेवालये । तं देवं विहितावतारमचिरादागत्य सेन्द्राः सुराः सर्वे नेमुरनर्तिषुर्जगुरगुर्वैतालिकत्वं पुरः ॥' एवमन्यदपि दण्ड्यादिशास्त्रेभ्योऽभ्यूह्यम् ॥
आदिमध्यवर्तिनैकेन जातिक्रियागुणद्रव्यरूपिणा पदार्थेन यत्रार्थसङ्गतिस्तद्दीपकम् ॥९॥
जात्या यथा'उत्साहसंपन्नमदीर्घसूत्रिणं क्रियाविधिज्ञं व्यसनेष्वसक्तम् । शूरं कृतज्ञं दृढसौहृदं च लक्ष्मी: स्वयं मार्गति वासहेतोः ॥' कियया यथा
काव्यानुशासनम् 'शाठ्येन मित्रं कपटेन धर्म परोपतापेन समृद्धिभावम् । सुखेन विद्यां परुषेण नारी वाञ्छन्ति ये व्यक्तमपण्डितास्ते ॥' गुणेन यथा'जवो हि सप्तेः प्रथम विभूषणं त्रपाऽङ्गनायाः कृशता तपस्विनः। विप्रस्य विद्यैव मुनेरपि क्षमा पराक्रमः शस्त्रबलोपजीविनाम् ॥' द्रव्येण यथा'विष्णुना विक्रमस्थेन दानवानां विभूतयः । क्वापि नीताः कुतोऽप्यासन्नानीता देवतर्द्धयः ॥' अस्य च कारणमालैकार्थार्थावृत्तिपदावृत्त्युभयावृत्त्यादयो भेदा भवन्ति । तत्र कारकदीपकं यथा'एते मेलककन्यकाप्रणयिनः पातालमूलस्पृशः सन्त्रासं जनयन्ति विन्ध्यभिदुरा वारा प्रवाहाः पुरः । हेलोन्मूलितनर्तितप्रचलितव्यावर्तितप्रेरित त्यक्तस्वीकृतनिद्भुतप्रकटितप्रोद्भूततीरद्रुमाः ॥' इत्युत्तरार्धे कारकदीपकं यथा । एवमन्यदपि । उपमेयस्यैवोक्तावन्यप्रतीतिरन्योक्तिः ॥१०॥ यथा'न्यग्रोधे फलशालिनि स्फुटरसं किञ्चित्फलं पच्यते बीजान्यङ्करगोचराणि कतिचित्सिद्यन्ति तस्मिन्नपि । एकस्तेष्वपि कश्चिदङ्कवरो बध्नाति तामुन्नति यामध्वन्यजनः स्वमातरमिव क्लान्तिच्छिदे धावति ॥' सा क्वचिन्निन्दारूपा यथा'यत्तद्गजितमूजितं यदपि च प्रोद्दामसौदामनी