________________
तृतीयोऽध्यायः
काव्यानुशासनम्
तत्पदव्यां पदं धत्ते तुलां तेनाधिरोहति । तमन्वेत्यनुबध्नाति तच्छीलं तन्निषेधति । तस्य चानुकरोतीति शब्दाः सादृशवस्तुनि ॥'
समासो बहुव्रीहिप्रभृतिः । यथा-चन्द्रवदनेत्यादि । सा च धर्म-वस्तुविपर्यासान्योन्य-नियम-समुच्चयातिशयोत्प्रेक्षाद्भुत-मोह-संशय-निर्णयश्लेष-समान-प्रशंसा-चिख्यासा-विरोध-प्रतिषेध-चटुतत्त्वाख्यान-साधारणभूतासम्भावित-बहु-विक्रिया-माला-वाक्यार्थ-प्रतिवस्तु-तुल्ययोग-हेतुरसनोपमादिभेदैरनेकधा भवति । तत्प्रबन्धस्तु 'दण्डिनो द्रष्टव्यः । इह तु ग्रन्थगौरवभयात् प्रकृतानुपयोगाच्च नोच्यते ॥
चमत्कारि साम्यमुपमा । सा प्रत्ययाऽव्ययतुल्यार्थसमाप्तैश्चतुर्धा ॥४॥
चमत्कारि सहृदयहृदयहारि उपमानोपमेययोः साम्यमुपमा । यथा'गत्या विभ्रममन्दया प्रतिपदं या राजहंसीयते यस्याः पूर्णमृगाङ्कमण्डलमिव श्रीमत् सदैवाननम् । यस्याश्चानुकरोति नेत्रयुगलं नीलोत्पलानि श्रिया तां कुन्दाग्रदतीं त्यजन् जिनपती राजीमतीं पातु वः ॥'
चमत्कारीति वचनात् 'कुकुम्भ इव मुखम्' इत्यादौ सादृश्येषूपमा न कार्या ।
सा प्रत्ययाऽव्ययतुल्यार्थसमासभेदैश्चतुर्धा भवति । तत्रापि वत्कल्पदेश्यदेशीयप्रभृतयः प्रत्ययाः । अव्ययानि इव वा-यथाप्रभृतीनि । 'तुल्यार्थास्तुल्यसङ्काशा:(श )प्रकाश-प्रतिरूपकाः । नीकाश-सदृक्सदृश-सदृक्ष-निभसन्निभाः ॥ प्रतिपक्ष-प्रतिद्वन्द्वि-प्रत्यनीक-विरोधिनः । हार्यनुकारी-संवादि-सजातीयानुवादिनः ॥ प्रतिबिम्ब-प्रतिच्छन्द-स्वरूप-सम-सप्रभाः । सलक्षण-समान-साभाः सपक्षोपमितोपमाः ॥ सवर्णतुलितौ शब्दौ प्रख्यौ प्रतिनिधी अपि । स्पर्धते जयति द्वेष्टि दृप्यति प्रतिगर्जति ॥ आक्रोशत्यवजानाति कदर्थयति निन्दति । विडम्बयति सन्धत्ते हसतीर्ण्यत्यसूयति ॥ तस्य पुष्णाति सौभाग्यं तस्य कान्ति विलुम्पति । तेन सार्धं विगृह्णाति तस्य कक्षां विगाहते ॥
१. 'अम्भोरुहमिवातानं मुग्धे करतलं तव । इति धर्मोपमा साक्षात्तुल्यधर्मप्रदर्शनात् ।।
राजीवमिव ते वयं नेत्रे नीलोत्पले इव । इति प्रतीयमानैकधर्मा वस्तूपमैव सा ॥ तवाननमिवोन्निद्रमरविन्दमभूदिति । सा प्रसिद्धिविपर्यासाद्विपर्यासोपमेष्यते ।। त्वदाननमिवाम्भोजमम्भोजमिव ते मुखम् । इत्यन्योन्योपमा सेयमन्योन्योत्कर्षशंसिनी ।। त्वन्मुखं कमलेनैव तुल्यं नान्येन केनचित् । इत्यन्यसाम्यव्यावृत्तिरिय सा नियमोपमा । पां तावत्तवान्वेति मुखमन्यच्च तादृशम् । अस्ति चेदस्तु तत्कारीत्यसावनियमोपमा ।। समुच्चयोपमाप्यस्ति न कान्त्यैव मुखं तव । हादनाख्येन चान्वेति कर्मणेन्दुमितीदृशी ॥ त्वय्येव त्वन्मुखं दृष्टं दृश्यते दिवि चन्द्रमाः । इयत्येव भिदा नान्येत्यसावतिशयोपमा । मय्येवास्या मुखश्रीरित्यलमिन्दोविकत्थनैः । पद्मेऽपि सा यदस्त्येवेत्यासावुत्प्रेक्षितोपमा । यदि किञ्चिद्भवेत्पद्यं सुभ्र विभ्रान्तलोचनम् । तत्ते मुखश्रियं धत्तामित्यसावद्धतोपमा । शशीत्युप्रेक्ष्य तन्वङ्गि त्वन्मुखं त्वन्मुखाशया । इन्दुमप्यनुधावामीत्येषा मोहोपमा मता ॥ कि पद्ममन्तभ्रन्तेिति किं ते नीलेक्षणं मुखम् । मम दोलायते चित्तमितीयं संशयोपमा । न पद्यस्येन्दुनिग्राह्यस्येन्दुलज्जाकरी द्युतिः । अतस्त्वन्मुखमेवेन्दुमित्यसौ निर्णयोपमा ॥ शिशिरांशुप्रतिद्वन्द्वि श्रीमत्सुरभिगन्धि च । अम्भोजमिव ते वकामिति श्लेषोपमा मता ॥ सरूपशब्दवाच्यत्वात्सा समानोपमा यथा । बालेवोद्यानमालेयं सालकाननशोभिनी । पद्मं बहुरजचन्द्रः क्षयी ताभ्यां तवाननम् । समानमपि सोत्सेकमिति निन्दोपमा मता ॥ ब्रह्मणोऽप्युद्भव पद्यश्चन्द्रः शम्भुशिरोधृतः । तौ तुल्यौ त्वन्मुखेनेति सा प्रशंसोपमेष्यते ॥