________________
प्रथमोऽध्यायः
विप्रवणिक्सचिवानां पुरोहितामात्यसार्थवाहानाम् । चरितं यन्नैककृतं तत्प्रज्ञेयं प्रकरणं नाम ॥
नोदात्तनायककृतं न दिव्यचरितं न राजसम्भोगः । बाह्यजनसंयुतं तत्प्रज्ञेयं प्रकरणं नाम ॥ दासविटश्रेष्ठियुतं वेशस्त्र्युपचारकारणोपेतम् । मन्दस्त्रीकुलचरितं काव्यं कार्यं 'प्रकरणे तु ॥' (भाणस्तु -)
आत्मानुभूतशंसी परशंसनवर्णनाप्रयुक्तश्च । विविधाश्रयो हि भाणो विज्ञेयस्त्वेकहार्यश्च ॥ परवचनमात्मसंस्थैः प्रतिवचनैरुत्तरोत्तरग्रथितैः । आकाशपुरुषकथितैरङ्गविकारैरभिनयेच्च ॥ धूर्तविटसंप्रयोज्यो नानावस्थान्तरात्मकैश्चैव । एकाङ्को बहुचेष्टः सततं कार्यो बुधैर्भाणः ॥' (प्रहसनं तु)
प्रहसनमपि विज्ञेयं द्विविधं शुद्धं तथा च संकीर्णम् । वक्ष्यामि तयोर्युक्त्या पृथक्पृथग्लक्षणविशेषम् ॥
भगवत्तापसविप्रैरन्यैरपि हासवादसम्बद्धम् । कापुरुषसंप्रयुक्तं परिहासाभाषणप्रायम् ॥ अविकृतभाषाचारं विशेषभावोपपन्नचरितमिदम् ॥ नियतगतिवस्तुविषयं शुद्धं ज्ञेयं प्रहसनं तु ॥ वेश्याचेटनपुंसकविटधूर्ता बन्धकी च यत्र स्युः । अनिभृतवेषपरिच्छदचेष्टितकरणं च संकीर्णम् ॥'
३७
१. 'प्रयोगे' नाट्य० २ विशेषेषु' नाट्य० ३ द्विविधा' नाट्य०.४. 'संस्थं' नाट्य०. ५.
'पदम् 'नाट्य ०.
३८
(डिमस्तु-)
'प्रख्यातवस्तुविषयः प्रख्यातोदात्तनायकश्चैव । षड्रसलक्षणयुक्तश्चतुरो वै डिमः कार्यः ॥ शृङ्गारहास्यवर्ज्यं शेषैरन्यै रसैः समायुक्तः । दीप्तरसकाव्ययोनिर्नानाभावोपसंपन्नः ॥ निर्घातोल्कापातैरुपरागेणेन्दुसूर्ययोर्युक्तः । युद्धनियुद्धाधर्षणसंस्फोटकृतश्च विज्ञेयः ॥ मायेन्द्रजालबहुलो बहु सुप्तोत्थानयोगयुक्तश्च । देवभुजगेन्द्रराक्षसयक्षपिशाचावकीर्णश्च ॥ षोडशनायकबहुलः सात्वत्यारभटिवृत्तिसम्पूर्णः ४ । कार्यो डिमः प्रयत्नान्नानाश्रयभावसंयुक्तः ॥ समवकारस्तु
'देवासुरबीजकृतः प्रख्यातोदात्तनायकश्चैव । त्र्यङ्कस्तथा त्रिकपटस्त्रिविद्रवः स्यात् त्रिशृङ्गारः ॥ द्वादशनायकबहुलो ह्यष्टादशनायिकाप्रमाणश्च ॥' इति । ( ईहामृगस्तु - )
दिव्यपुरुषाश्रयकृतो दिव्यस्त्रीकारणोपगतयुद्धः । सुविहितवस्तुनिबद्धो विप्रत्ययकारणश्चैव ॥ उद्धतपुरुषप्रायः स्त्रीरोषग्रथितकाव्यबन्धश्च । संक्षोभविद्रवकृतः संस्फोटकृतस्तथा चैव ॥ स्त्रीभेदनोपहरणावमर्दनप्राप्तवस्तु शृङ्गारः । ईहामृगस्तु कार्यः सुसमाहितकाव्यबन्धश्च ॥
काव्यानुशासनम्
१. ' षड्विशल्लक्षणयुक्त' नाट्य० २. 'कर्तव्य: 'नाट्य०. ३. 'बहुपुरुषोत्थानयुक्तञ्च' नाट्य०.
४. 'संपन्न' नाट्य०. ५. 'चतुरङ्कविभूषितश्चैव' नाट्य०.