________________
३३
काव्यानुशासनम्
प्रथमोऽध्यायः चन्द्रार्कोदयास्त-समग्रोद्यान-जलकेलि-मधुपान-सुरत-मन्त्रदूतसैन्यावास-प्रयाणाजि-नायकाभ्युदय-विवाह-विप्रलम्भाश्रमनद्यादिवर्णनोपेतं महाकाव्यम् ॥५९॥
तत्र संस्कृतभाषानिबद्धसर्गबन्धं रघुवंशादि । प्राकृतभाषानिबद्धाश्वासकबन्धं सेतुबन्धादि । अप्रभ्रंशभाषानिबद्धसंधिबन्धमब्धिमथनादि । ग्राम्यभाषानिबद्धावस्कन्धबन्धं भीमकाव्यादि । प्रायोग्रहणात्संस्कृतभाषा-यामपि क्वचिदाश्वासकबन्धो न दुष्यति, तथा आदितः समाप्तिपर्यन्तं कुत्राप्येकमेव छन्दो न दुष्यति ।
मुखसन्धिर्यथा'अत्र बीजसमुत्पत्तिर्नानार्थरससंभवा । 'काव्यशरीरानुगतं तन्मुखं परिचक्षते ॥' प्रतिमुखं यथा'बीजस्योद्घाटनं यत्र दृष्टनष्टमिव क्वचित् । मुखन्यस्तस्य सर्वत्र तद्वै प्रतिमुखं स्मृतम् ॥' गर्भो यथा'उद्भेदस्तस्य बीजस्य प्राप्तिरप्राप्तिरेव वा । पुनश्चान्वेषणं यत्र स गर्भ इति संज्ञितः ॥' 'विमर्षों यथा'गर्भनिभिन्नबीजार्थो विलोभनकृतोऽपि वा । क्रोधव्यसनजो वापि स 'विमर्षः प्रकीर्तितः ॥'
निर्वहणं यथा'समानयनमर्थानां मुखाद्यानां सबीजिनाम् । नानाभावोत्तराणां यद्भवेन्निर्वहणं तु तत् ॥' आशीर्नमस्क्रियावस्तुनिर्देशोपक्रमयुतमिति । तत्राशीर्यथा चन्द्रप्रभकाव्ये 'श्रियं क्रियाद्यस्य सुरागमे नटत्सुरेन्द्रनेत्रप्रतिबिम्बलाञ्छिता । सभा बभौ रत्नमयी महोत्पलैः कृतोपहारेव स वोऽग्रजो जिनः ॥' नमस्कारो यथा रघुवंशे'वागर्थाविव संपृक्तौ वागर्थप्रतिपत्तये । जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ ॥' वस्तुनिर्देशो यथा'श्रियः पतिः श्रीमति शासितुं जग ज्जगन्निवासो वसुदेवसद्मनि । वसन् ददर्शावतरन्तमम्बरा द्धिरण्यगर्भाङ्गभुवं मुनि हरिः ॥' वस्तुप्रतिज्ञातत्प्रयोजनोपक्षेप(न्यास) इति । यथा स्वोपज्ञ ऋषभदेवचरितमहाकाव्ये 'यत्पुष्पदन्तमुनिसेनमुनीन्द्रमुख्यैः पूर्वैः कृतं सुकविभिस्तदहं विधित्सुः । हास्याय कस्य ननु नास्ति तथापि सन्तः शृण्वन्तु कञ्चन समापि सुयुक्तिसूक्तम् ॥' कविप्रशंसा चात्रैव । यथा
१. 'काव्ये शरीरानुगता' इति नाट्यशास्त्रस्थपाठः । २. 'गर्भान्निभिन्न' इति नाट्यशास्त्रे । ३. 'श इति स्मृतः' नाटा०.