________________
प्रथमोऽध्यायः
२१
२२
'ज्योतिर्लीलावलयि गलितं यस्य बह भवानी पुत्रप्रेम्णा कुवलयदलत्रापि कर्णे करोति । धौतापाङ्गं हरशशिरुचा पावकैस्तं मयूर पश्चादद्रिग्रहणगुरुभिर्गजितैर्नर्तयेथाः ॥' अविशेषोक्तौ माणिक्यानां शोणतैव ॥३३॥ यथा'विभोः सभायां भान्त्येते रत्नदीपाः प्रभाभरैः । कृतालक्तकपोतश्रीविभ्रमासन्नवारिदाः ॥' पुष्पाणां शुक्लतैव ॥३४॥ यथा'फलेषु सुस्वादुतरेषु सत्सु क्रव्यार्थिनं मां मृगपृष्ठलग्नम् । जाने तदानीं स्मितपुष्पगुच्छच्छलादहासीद्वनवृक्षवीथी ॥' मेघानां कृष्णतैव ॥३५॥ यथालक्ष्मीभृतोऽम्भोधितटाधिवासान्द्रुमानसौ नीरदनीलभासः । लतावधूसंप्रयुजोऽधिवेलं बहूकृतान्स्वानिव पश्यति स्म ॥' कृष्णनीलहरितश्यामानाम् ॥३६॥ ऐक्यमिति (वक्ष्यमाणेन ) सम्बन्धः ॥३७॥ एवमग्रेऽपि ॥३८॥ यथा'सजलजलदनीला भाति यस्मिन्वनाली मरकतमणिकृष्णो यत्र नेमिजिनेन्द्रः ।
काव्यानुशासनम् विकचकुवलयालिश्यामलं यत्सरोम्भः प्रमदयति न काँस्कांस्तत्पुरं राहडस्य ॥' पीतरक्तयोः ॥३९॥ यथा'नवकनकपिशङ्गं वासराणां विधातुः ककुभि कुलिशपाणे ति भासां वितानम् । जनितभुवनदाहारम्भमम्भांसि दग्ध्वा चलितमिव महाब्धेरुर्ध्वमौर्वानलाचिः ॥' शुक्लगौरयोः ॥४०॥ यथा'कैलासगौरं वृषमारुरुक्षोः पादार्पणानुग्रहपूतपृष्ठम् । अवेहि मां किङ्करमष्टमूर्तेः कुम्भोदरं नाम निकुम्भमित्रम् ॥' रक्तगौरयोः ॥४१॥ यथा'पयसि सलिलराशेर्नक्तमन्तर्निमग्नं स्फुटमनिशमतापि ज्वालया वाडवाग्नेः । यदयमिदमिदानीमङ्गमुद्यद्दधाति ज्वलितखदिरकाष्ठाङ्गारगौरं विवस्वान् ॥' चन्द्रे शशमृगयोः ॥४२॥ यथा'लक्ष्मीक्रीडातडागं रतिधवलगृहं दर्पणो दिग्वधूनां पुष्पश्यामालतायास्त्रिभुवनजयिनो मन्मथस्यातपत्रम् । पिण्डीभूतं हरस्य स्मितममृतसरित्पुण्डरीकं शशाङ्को ज्योत्स्नापीयूषवापी जयति सितवृषस्तारकागोकुलस्य ॥'