________________
प्रथमोऽध्यायः
लौकायतीयो यथा
'पिष्टोदकगुडादिभ्यो मदशक्तिरिव स्वयम् । वयुर्वीवायुवारिभ्यो भूतानां तनुचेतना ॥'
साहित्यनैपुणं महाकाव्यकथाख्यायिकाख्यानकादिपरामर्शः । छन्दोनैपुणं यथा
'सद्यतिसेवितपादं वरगणधरमूर्जितप्रवरवृत्तम् । श्रीवर्धमानमादौ जयदेवं भक्तितो वन्दे ॥' अलङ्कारनैपुणं यथा
'प्रसन्नाः कान्तिहारिण्यो नानाश्लेषविचक्षणाः । भवन्ति कस्यचित् पुण्यैर्मुखे वाचो गृहे स्त्रियः ॥' अपौरुषेयं वचः श्रुतिः । तन्नैपुणं यथा
'निवेशयामासिथ हेलयोद्धृतं फणाभृतां छादनमेकमोकसः । जगत्त्रयैकस्थपतिस्त्वमुच्चकैरहीश्वरस्तम्भशिरःसु भूतलम् ॥' श्रुत्यर्थस्मरणात् स्मृतिः
‘भव्याभव्यविलोकिलोचनयुगं चेतः स्मृतेः पारगं धम्मिल्ले शिरसि स्थिते वरतनोर्मुख्या द्विजाः साक्षिणः । स्तेयं नो मम कालिकेति कुचयोर्द्वन्द्वं प्रतिज्ञापरं हारान्तःस्थितपद्मरागमिषतः फालं दधौ शुद्धये ॥'
यथा च
'एतस्या गगनश्रियः प्रियतरा नक्षत्रमालामला रात्रौ कण्ठमधिष्ठिताप्यपहृता प्राच्या प्रतीच्यान्विति । सौवर्ण रजतस्य गोलकममुं धत्तः स्वभाग्योदयात् सूर्याचन्द्रमसोर्मिषेण युगपत् प्रातः स्वयं शुद्धये ॥' वेदाख्यानोपनिबन्धनं पुराणम्
११
१२
काव्यानुशासनम्
'किं किं सिंहस्ततः किं नरसदृशवपुर्देव चित्तं धृतः किं नैवं कस्कोऽत्र जीवो द्रुतमुपनय रे देवसम्प्राप्त एव । चापं चापं न खड्गः किमिति हहहहा कर्कशत्वं नखाना
मित्थं दैत्याधिनाथं खरनखकुलिशैर्जघ्निवान् यः स वोऽव्यात् ॥ ' पुराणप्रतिभेद एव इतिहासः । तन्नैपुणं यथा
'मदं नवैश्वर्यपदेन लम्भितं विमुच्य पूर्वः समयो विमृश्यताम् । जगज्जिघत्सातुरकण्डपद्धतिर्नवालिनैवाहिततृप्तिरन्तकः ॥ '
आगम आप्तवचनं यथा
'प्रजापतिर्यः प्रतिमं जिजीविषुः शशास कृष्यादिषु कर्मसु प्रजाः । प्रबुद्धतत्त्वः पुनरद्भुतोदयो ममत्वतो निर्विविदे विदांवरः ॥' नाट्यनैपुणं यथा
'कार्योपक्षेपमादौ तनुरपि रचयंस्तस्य विस्तारमिच्छन् बीजानां गर्भितानां फलमतिगहनं मूढमुद्भेदयँश्च कुर्वन् बुद्धया विमर्श प्रसृतमपि पुनः संहरन् कार्यजातं कर्ता वा नाटकानामिममनुभवति क्लेशमस्मद्विधो वा ॥ ' अभिधानकोशो नाममाला । ततो हि शब्दनिश्चयः ॥
ननु प्रयुक्तमेव प्रयुज्यते, अन्यथाऽप्रयुक्तत्वदोषावकाशः तत्किं नाममालया । मैवम् । सामान्येन प्रयुक्तादर्थावगतिर्भवति । यथा
नीविशब्देन जघनवस्त्रग्रन्थिरुच्यते इति कस्यचिन्निश्चयः, 'स्त्रियः पुरुषस्य वा' इति संशये
'नीविराग्रन्थनं नार्या जघनस्थस्य वाससः '
इति नाममालापदावलोकनादेव निर्णयो भवति । कामशास्त्रे नैपुणं यथा