________________
गा.-९९
बन्धशतकप्रकरणम्
पूर्वदर्शितस्वरूपां रचयन्ति, नैकोनत्रिंशदादिबन्धास्तेषां तीर्थकराहारकसहितत्वात्, तिरश्चां च तदबन्धकत्वादतस्तेषु भागा अल्पा लभ्यन्त इति तेऽपीह नाधिक्रियन्ते । मनुष्यस्याप्यष्टाविंशतिबन्धकस्य भागा बहवो न लभ्यन्ते । त्रिंशदेकत्रिंशद्बन्धौ तु देवगतिप्रायोग्यौ संयतस्य भवतस्तत्र च वीर्यमल्पं न लभ्यते । अन्ये तु देवगतिप्रायोग्या नाम्नि बन्धा एव न सन्तीत्यालोच्यैकोनत्रिंशद्बन्धकस्य मनुष्यस्यैव ग्रहणम् ।
ननु तिर्यक्षु पर्याप्तासज्ञी देवगतिप्रायोग्यमेतत् प्रकृतिचतुष्टयं बध्नाति, स कस्मादिह नाङ्गीकृतः ? उच्यते, प्रभूतयोगत्वात्, अपर्याप्तसज्ञियोगात् हि पर्याप्तासज्ञियोगो जघन्योऽप्यसङ्ख्येयगुणः । 'सुहुमो भवे सेस'त्ति 'भवाइ' इत्येतदत्रापि | सम्बन्ध्यते । भणितैकादशप्रकृतिभ्यः शेषाः नवोत्तरशतलक्षणाः प्रकृतीराश्रित्य सर्वजघन्यवीर्यलब्धियुक्तो यथासम्भवं बह्वीः प्रकृतीबंधनन् भवाद्यसमये वर्तमानः सूक्ष्मापर्याप्तनिगोदजीवो भवति जघन्यप्रदेशबन्धकः इति शेषः । सर्वासामप्यत्र बन्धसद्भावात्, सर्वजघन्यवीर्यस्य चात्रैव भावादिति गाथार्थः ॥१९॥ भा० घोलणजोगो परियत्त-माणजोगो असन्निओ जीवो । जहन्नपएसा बंधइ चउपयडी ता उ पुण एया ॥९५०॥
नरगदुगं नरयाउं देवाउं तह य पुढविमाईया । चउरिदियावसाणा देवेसुं तह य नरएसुं ॥९५१॥ उप्पत्तिअभावाओ इय पयडिचउक्कयं न बंधंति । असन्निऽपज्जत्तो तह संकेसविसुद्धिविरहा उ ॥९५२॥ एयं पयडिचउक्कं नो बंधइ तेण उच्चरियनाया । असन्नी पज्जत्तो सुत्तेऽणुत्तो वि दट्ठव्वो ॥९५३॥
३०८