________________
बन्धशतक प्रकरणम्
पन्नरसहं ठिइमुक्कोसं बंधंति मणुयतेरिच्छा । छण्हं सुरनेरइया ईसाणंता सुरा तिहं ॥ ६१ ॥
देवायुर्वर्ण्यमायुष्कत्रयं देवद्विकं नरकद्विकं द्वित्रिचतुरिन्द्रियजातयः वैक्रियद्विकं सूक्ष्मम् अपर्याप्तकं साधारणमित्येतासां ॐ पञ्चदशप्रकृतीनामुत्कृष्टां स्थितिं तिर्यङ्मनुष्या एव मिथ्यादृष्टयो बध्नन्ति न देवनारका, ते ह्येतासां मध्ये तिर्यङ्मनुष्यायुर्द्वयं मुक्त्वा शेषास्त्रयोदश प्रकृतीर्भवप्रत्ययेनैव न बध्नन्ति । तिर्यङ्मनुष्यायुषोरपि देवकुर्वादिप्रायोग्य उत्कृष्टस्त्रिपल्योपमलक्षणः स्थितिबन्धः प्रकृतः, तत्र देवनारका भवप्रत्ययादेव नोत्पद्यन्त इत्येतद्बन्धोऽप्यमीषां न सम्भवति, तस्मादेते तिर्यङ्मनुष्यायुषी उत्कृष्टस्थितिके पूर्वकोट्यायुषस्तिर्यङ्मनुष्या मिथ्यादृष्टयस्तत्प्रायोग्यविशुद्धाः स्वायुस्त्रिभागाद्यसमये वर्त्तमाना बध्नन्ति । सम्यग्दृष्टेरतिविशुद्धमिथ्यादृष्टेश्च देवायुबन्धः स्यादिति मिथ्यादृष्टित्वतत्प्रायोग्यविशुद्धविशेषणद्वयम् । नारकायुषस्त्वेत एव तत्प्रायोग्यसङ्क्लिष्टा वाच्याः, अत्यन्तशुद्धस्यात्यन्तसङ्क्लिष्टस्य चायुर्बन्धस्य सर्वथा निषेधादिति । नरकद्विकवैक्रियद्विकयोस्त्वेत एव सर्वे सङ्क्लिष्टाः पूर्वोक्तोत्कृष्टस्थितेर्बन्धका वाच्याः । विकलजातित्रिकसूक्ष्मत्रिकयोस्तु तत्प्रायोग्यसङ्क्लिष्टा द्रष्टव्याः । अतिसङ्क्लिष्टा हि प्रस्तुतप्रकृतिबन्धमुल्लङ्घ्य नरकप्रायोग्यमेव निर्वर्त्तयेयुर्विशुद्धास्ते विशुद्धितारतम्यात्पञ्चेन्द्रियतिर्यक्प्रायोग्यं वा मनुष्यप्रायोग्यं वा देवप्रायोग्यं वा रचयेयुरिति तत्प्रायोग्यं सङ्क्लेशग्रहणम् । देवद्विकस्यापि तत्प्रायोग्यसङ्क्लिष्टा वाच्याः, अति
गा.-६१
१८६