________________
[७१-७३]
आभाणकजगन्नाथ
आभाणकजगन्नाथ
७. बधिरमधिकारिणां रुधिरम् ।
७४.मध्यमा:
१. कण्टकेनापि संधत्ते, कार्पासेनापि संधत्ते। २. कह्वोऽपि तृप्यात् कुलीरकोऽपि जीव्यात् । ३. घण्टापथः सखा भूयात्, कुञ्जरकुथः सुखाय स्यात् । ४. नकुलं लिम्पन्ति तैलेन, नागं लिम्पन्ति नवनीतेन । ५. लुण्टाकेन लीला माऽस्तु, सज्जनेन संगो माऽस्तु । [९३७]
७५.पक्षपात:
३१. स्वयं मृदं खादति परमुखेषु च कर्दमं क्षिपति। ३२. स्वयमशिष्टाः परान् भ्रष्टान् भणन्ति । ३३. हन्तृकेन हितोपदेशः।
[९२० ७२.उत्कृष्टा अपकृष्टाश्च १. तृण्यामध्ये तालतरु। २. महातरुरिति भ्रमः स्नुहितरौ महान् कोषतः । ३. शङ्ककर्णात् तिष्ठतः शुण्डालः शयान8 शोभनतरः । ४. शाल्मल्यपि वृक्ष8 शाखोटकोऽपि वृक्षः । ५. षट् पादा मक्षिकाया मधुमक्षिकायाश्च। [९२५]
७३.अधिकारिणः १. अधिकारिणाम् अष्ट वदनानि। २. अधिकारे दत्ते बधिराय, सर्वेषां कर्णं छेदयामास । ३. अधिकृतो रासभः प्रतिजनं पाडयति। ४. आस्यस्य नीचोर्ध्वमेजने भुजास्फालनं, तिर्यक् कम्पने
शिरस्ताडनम्। ५. चित्रकनखाद् अबिभ्यतोऽप्यधिकारिमुखाद् वेपन्ते। ६. पीठोपविष्टो ग्राम्याश्वः परमज्ञानी।
१. जीर्णदेहोऽपि मम सखा ज्यैष्ठिकेन्द्रः । २. प्रसूतः सूकरोऽपि प्रसूतवतां लालनाय । ३. मदीयः कर्दम एव मम कृते पीयूषसागरः । ४. मदीयो बान्धवः खरोऽपि सैन्धवः।
[९४१]
७६.धीरा
१. अहमस्म्यूर्जा, मां तजयितं स्फुर्जथन शक्नोति। ७४.२.कह्व-बकः । ७४.३. घण्टापथ?-राजमार्ग: । कुञ्जरस्य-गजस्य । कुथ:-गजोपरि उपवेष्टुम् आच्छादनार्थं च स्थापनीयं वस्त्रम् । यद्यपि केवलेन कुथशब्देनैव गजस्यैष इति बोधो भवत्येवान्यार्थेऽस्याप्रयुक्तत्वात्। तथापि कुजरशब्दस्यात्र प्रयोग करिकलभ-पुष्पमालादि-शब्दवत् समर्थनीयः । ७४.५.लुण्टाकेन-चोरेण । ७५.१.ज्यैष्ठिकेन्द्र:-मल्लाधीश । ७५.४.सैन्धवः-अश्वः।
७२.१.तृण्या-तृणानां समूहः । ७२.२.महातरुत-स्नुहिः। 'स्नुहिर्वजो महातरु' इत्यभिधानचिन्तामणिः । कोषता-कोषस्याभिधानचिन्तामण्यादेः कारणात् । वस्तुतस्तु महातरु त्वरूपधर्मस्तस्य नास्ति । ७२.३.शङ्ककर्णात्-गर्दभात् । शुण्डाला-गजः । ७२.४.शाखोटक:-भूतावासो वृक्षविशेषः । ७३.४.एजने-कम्पने। ७३.६.ग्राम्याश्व:-गर्दभः ।