________________
[७०-७१]
आभाणकजगन्नाथ
आभाणकजगन्नाथ
१२. भवनादानं समाप्य “तव नामधेयं किम् "इति
पृच्छति। १३. शुभे कृते शापमुत्सर्जति।
[८८७] ७१.नीचा १. अपकीर्तिरपवित्रहृदां स्फूर्तिः । २. अयोग्यान् सौभाग्यलक्ष्मीरयते। ३. अस्थिहीनाया जिह्वाया अनवरोधम् एजनम् । ४. ईतिः परेषामस्तु, ममेयमेव रीतिः । ५. कलुषितमतेकनकधाराऽपि कच्चरपरीवाहः । ६. कारवेल्लचक्षुष्काणां भुवनं भूरि तिक्तम् । ७. कुहनावतामग्रे पृतनावतामपि मृदि लोठनम्।
किट्ट नापगच्छति पट्टाभिषेकेण। ९. क्षुद्रबुद्धेः क्षौद्रमपि प्राप्तम्।। १०. खलम् आलिलिङ्गिषुः खड्गं प्रीत्या लेढि। ११. गोप्रकाण्डस्य गौरवं गर्दभो न गणयति। १२. चारुरूपा अपि घोरवर्पसो दुषितदृश्वनाम् ।
१३. तुच्छोऽपि चमरपुच्छोऽपि। १४. दुर्दम कर्दमः। १५. दुर्व्यवहारिणां दिव्योपदेशा। १६. नीचेषु नाराच एव नीतिः । १७. परनिन्दा पायसं पिशुनानाम् । १८. पराक्षेपः केषाञ्चिद् विराभ्यासः | १९. पापिष्ठानां प्रचुरमायुः। २०. पिशाचेन पुराणप्रवचनम्। २१. प्रदत्ते तृणे प्रस्तुम्पति। २२. भीरोरायद् भीतैर्धान्तैः शूरोऽनार्यः प्रीत्या सेव्यः । २३. लज्जाशून्या: सकलैर्मान्या । २४. लोप्वेण जीविका लोलशीलस्य पालकस्य । २५. विश्वासघाती वस्त्राञ्चले वृश्चिकः । २६. वृतिं लङ्माना गोधा व्रतमुपदिशति सीमानतिक्रमणे । २७. शीलभ्रष्टैः शान्त्युपदेशः। २८. सर्वत्र मृदेव सीसकदृष्टीनाम्। २९. स्वयं कृतं सुवर्णं परकृतं कुवर्णम्। ३०. स्वयं पश्यतोहराः परांश्चोरान् ब्रुवन्ति। ७१.१३.चमरपुच्छ:-Squirrel.७१.१६.नाराच-अयोनिर्मितो बाणः । ७१.१८. विराभ्यास:-विराम-कालिक अभ्यास:-hobby.मया सृष्टोऽयं शब्दः। ७१.२१.प्रस्तुम्पति-शृङ्गेण तुदति। ७१.२४.लोप्वेण-चोरितेन द्रव्येण । ७१.२६.गोधा-Salamander.सीमानतिक्रमणे-सीमातिक्रमराहित्यविषये। विषयसप्तमी। ७१.३०. पश्यतोहरा:-bandits.
७०.१२.भवनादानं-भवनस्य गृहस्य, आदानं स्वीकारम् । भवनस्य दानं कृतवत: परिचयो नास्तीतीवाभिनयतीत्यर्थः । ७१.२.अयते-गच्छति। ७१.३.अनवरोधम्-रोधरहितम् । एजनम् -कम्पनम् । ७१.४.ईति-पीडा। ७१.७.पृतनासेना। ७१.८. किट्ट-मालिन्यम् । ७१.९.क्षौद्र-मधु । ७१.१०.आलिलिङ्गिषुःआलिङ्गितुमिच्छु।। ७१.११.गोप्रकाण्डस्य-गोश्रेष्ठस्य । ७१.१२.घोरवर्पस:भयङ्करशरीराः । वैदिकोऽयं शब्दः।