________________
[४०-४१]
आभाणकजगन्नाथ
आभाणकजगन्नाथ:
[४१-४२]
४०.कार्यकाल १. अपभ्रंशमप्यजानानाः सपर्यया पाणिनीयैः
सम्मान्यन्ते। २. कण्ठीरवेणापि रोगिणा शुण्ठी सेव्यताम् । ३. कार्यकाले कर्दम एव यक्षकर्दम । ४. कार्यार्थिभिः करीषमपि कबलीकरणीयम् । ५. द्वारपालो वा धरणीपालो वा ? ६. पुत्तिकापुरे जिजीविषुणा मृत्तिकाभक्षणं शिक्षणीयम् । ७. मर्कटेन नृत्ते मणीचकगुच्छानि तस्मै मयूर
समर्पयति। ८. सलिलाकाङ्किणा सरोवरे मङ्गव्यम्। ९. सुधालाभाय सैरिभलाङ्गले सुगन्धं लेपय। [४९५]
४१.कार्यहीना १. अटाट्यते वटान् परितो जटाधारी। २. अट्टालिकायां विट्ठलभट्टाचार्यस्तण्डुलं कुट्टयति। ३. असति वरकार्ये घघति परनिन्दा। ४०.२.कण्ठीरवेण-सिंहेन। ४०.३.यक्षकर्दम-अतिसुगन्धिद्रव्य-साधितानुलेपनभेद। 'कर्परागुरुककोलकस्तूरीचन्दनद्रवैः । स्याद् यक्षकर्दमो मिथैः' इति अभिधानचिन्तामणौ(३.६३८)। कर्पूरस्थाने कुमो धन्वन्तरि-निघण्टौ पठित इति तत्रत्येन देवसागरगणिकृत-व्युत्पत्तिरत्नाकरव्याख्योद्धृतेन पद्येन ज्ञायते। ४०.७.मणीचक-पुष्पम्।४०.८.सैरिभा-महिषः । ४१.१.अटाट्यते-भृशमटति। अट्+यक् । ४१.३.घघति-उच्चैर्हसति। घघ हसने। अत्र परनिन्दा की।
४. अस्ति ममाप्रकृतं बहु कार्यम्। ५. उभयोः कार्यं नास्ति, सभयं सर्वं तत्त्वम् ।
करपादा विश्रान्ता जिह्वा किं न श्रान्ता ? ७. कार्यशून्या: कार्पासपुरे कोलाहलं कुर्वन्ति ।
केशान् पत्युर्मुञ्चति कार्यहीना भार्या । ९. क्रुद्धो भोजराजो दग्धं बीजं खादति। १०. जोषमनुपविश्य जर्णात् पतित्वा जीवसंकटं प्राप्नोत् । ११. तण्डुलध्वंसी मण्डनमिश्रो मुण्डनं कुरुते। १२. भस्मविषये भयानकं ताण्डवम्। १३. मल्लाधीशो रल्लकमाच्छाद्य स्वप्ने भल्लेशेन युद्ध्यति। १४. मृत्पिण्डं महापर्वतं चिकीर्षति। १५. वीतकार्या देवताऽपि प्रेततायै स्पृहयते। [५१०]
४२.कृपणः १. आघोणलाङ्गलं कृपणाग्रेसरचक्रवर्ती।
कर्णयोर्माणकध्वनौ पतिते कृपणानां गोण्डलीनृत्यम् । ३. कूटनाणकै कोटिदानम्। ४. मुखे कारुण्यं करे कार्पण्यम् । ४१.१०.जोषम्-गात्रसंयमपूर्वकम् । जात्-जीर्णद्रुमात् । ४१.१३.रल्लकम्रावजातीयकम् अतिस्थूलमाच्छादनवस्त्रम् । भल्लेशेन-भल्लूकेन । ४१.१४.चिकीर्षति-कर्तुमिच्छति । अपरिगणनीयां क्षुद्रां घटनां महाघटनामिव वर्णयतीत्यर्थः । ४१.१५.वीतकार्या-सप्रयोजनकार्यरहिता। ४२.२.गोण्डलीनृत्यम्-नृत्यविशेषः । संगीतरत्नाकरेऽस्य प्रपञ्च।।
[५१४]