________________
आभाणकजगन्नाथ
आभाणकजगन्नाथ
[३८-३१]
१७. भूलोकस्यान्तरङ्गे वल्मीकस्यान्तरङ्गे बिलस्यान्तरङ्गे
वराहस्य शैत्यमभूदिति हेतोः पर्वतस्योपरि निर्वाचितः सर्वमठाधिप: 'आक्षि', आक्षि'
इति क्षुतवान्। १८. मीनापणे महावीरविग्रहं मीमांसते ! १९. वार्तायां पृष्टायां वृन्ताकः क्षुत इत्यार्तनादं करोति। २०. वेतण्डस्य व्रणे जाते वराहस्योपरि चण्डोष्णं तैलमसिञ्चन् । २१. व्याघ्रस्य वायसेन किम् ?
[४७० ३७.कोऽपि गूढ संबन्धः स्यादेव। १. चरिल्ली चोरीत्युक्ते चञ्चुसूच्या चञ्चूराकुञ्चिता। २. ताये भर्त्तिते तापसः किमिति ताण्डवमारभते ? ३. दार्वाघाटं दृष्ट्वा देवदत्तो दन्तान् दर्पणे दृष्टवान् । ४. नकुलो दस्युरित्युक्ते नहिकुटी नहि नहीति नर्दति। ५. महाकडूस्य मर्दले भग्नेमहाक्रौञ्चस्य कण्ठे किमर्थकण्डू ? ६. शृङ्गं भुग्नमित्युक्ते पुच्छस्य किमित्याधि ? [४७६] ३७.१.चरिल्ली-Common House Swift or Swallow | चञ्चुसूची-Weaver bird |३७.२.तापस-बकः तपोनिष्ठश्च।३७.३. दार्वाघाट:-Wood-pecker|३७.४. नहिकुटी-Crag Martin or IndianSand Martin|३७.५.महाकडू-Great Whitebelled Heran|महाक्रौञ्च:-Great WhiteCrane I 'Birds in Sanskrit literature:Sanskrit-English Index' by Elfrun Linke.ABORI LXXVIII parts1-4 1998 Pp.121-141 ३७.६.भुग्न-वक्रम् । आधि:-मानसी व्यथा।
३८.असंभव पृथुकतण्डुलराज्ये पट्टाभिषिक्तः पौरवपुरं पाति। २. भंशानन्तरं मुसलः पल्लवित । ३. मल्लिका यदि नारिकेलवृक्षे फुल्लेत्, मम गृहे
कनकवर्षणं भवेत्। ४. यदा देवः सुवर्ण वर्षति, तदा मम पितामहाय
पीताम्बरं ऋष्यामि। ५. शृगालीकाकयोर्विवाहे शोभते मूर्खस्य मस्तिष्केपल्लवः । ६. समुद्रे तृषिते सलिलं कुत आनेयम् ? [४८२]
__३९.उत्कोच १. उत्कोचतिमिङ्गिले लब्धे किं वेतनशफर्या बकासुरस्य ? २. काकिणीदाने काको भव्य,कार्षापणदाने घूको दिव्यः । ३. मम पितुः शृङ्गपुच्छानि न सन्ति। मम तु
शृङ्गपञ्चकं, पुच्छषटुं च, तत् कथम् ? ४. लक्षमुत्कुच्य शतं प्रकुरुते। __ [४८६] ३८.१.पृथुकतण्डुल-कृष्णाय कुचेलेन यो दत्त:, सः । ३९.१.शफर्यामीनविशेषेण । ३९.२.काकिणी-धनस्याल्पतमो भागः । 'पैसे' इति कन्नडे। कार्षापणं-सुवर्णनाणकम् । ३९.३.शृङ्गयुच्छानि-लक्षणया धनम् ।दरिद्र वंशे जातोऽपि उत्कोचगिलनेन धनवानस्मि। ३९.४.लक्षमुत्कुच्च-लक्षरूप्यकाणि उत्कोचत्वेन स्वीकृत्य । शतं प्रकुरुते-शतं रूप्यकाणि ददाति। प्राचीनतमोऽयं प्रयोगः । भक्षितस्योत्कोचस्य सदृश्या मात्रया कार्यम् अकृतवति पुरुषे (पुरुषविषये)उत्कोचं दत्तवतां दूयमानानां चेयमुक्तिः ।