________________
[३-४]
आभाणकजगन्नाथ
आभाणकजगन्नाथ
एडमूक पित्रो पीडनाय। ६. ज्ञानहीनस्य श्मश्रु मानरक्षणाय । ७. “रे हय " इत्युक्ते “हे वय "मिति प्रत्युत्तरति। ८. वामहस्ताङ्गुलीविदग्धस्य पुरस्तादज्ञानी सर्वज्ञः । ९. सामिज्ञानं संकटाय।
१२. मत्कुणात् कम्प्रा मातङ्गेन युयुत्सन्ति । १३. मितौ नष्टायां मुसलेन संभाषे। १४. मुसले किसलय । १५. यज्ञे दग्धं यजमानस्य श्मश्रु। १६. विश्ववेदसो विचित्रचरित्राः । १७. वृद्धा विदग्धाः पाकैर्दग्धाः । १८. वैनतेयं वेतण्डो लङ्गनेन विस्माययति । १९. शशकं दृष्ट्वा शलल शल्यानि तेजयति। २०. सिंही सूकरं सूते। २१. स्थगिता वृष्टिः स्थगितो पातो न विटपिदलगतबिन्दूनाम्।
[८४] ४.अज्ञानम् १. अज्ञाननिगृहनं विज्ञानविशेषः । २. अटनमकृत्वा रटति। ३. अर्धबोधो बाधः। ४. अलंकारविद्यार्थिनो बलं वदनपिधानम् । ३.१२.युयुत्सन्ति-योद्भुमिच्छन्ति।युध्+सन् ।३.१६.विश्ववेदस-विश्वप्रज्ञा४ । वैदिकोऽयं शब्दः।३.१७.पाकै-अल्पवयस्कै डिम्भैः । दग्धा- लक्षणया पराजिताः । ३.१९,शलल:-देहे शललानि (कण्टकान्)धरन् चतुष्पात् प्राणिविशेषः । एष भीत: सन् स्वकीयानि शललानि शत्रौ क्षिपति ।तेजयतितीक्ष्णीकरोति । ३.२१.वृष्टिः स्थगिता,वृक्षपत्रगतानां जलबिन्दूनां भूमी पातस्तुन स्थगित:। ४.४.अलंकारविद्यार्थिन:-अलंकारप्रियस्य विद्यार्थिन ।
५.धर्मसंकटम् १. इष्टा बन्धवः कष्टा च धान्यहानिः । २. भक्ष्ये रक्तिभिषजि च भक्तिः । ३. भिस्सटायास्त्यागे प्रीतिभङ्ग भोगे स्वास्थ्यभङ्गः । [९६]
६.अतिमार्दवम् १. उपलहृदयानां द्वारि उत्पलहृदया भिक्षन्ते । २. करी मृदुवचन: कबलितः काकेन ।
भीरूणां शशकानां तृणकम्पोऽपि व्याघ्रझम्पः । मल्लिकया सह मल्लयुद्धम्। मशको महानादेन महिषस्य कर्णकुहरं भनक्ति।
मृदमदन्ति मृदुललिता। ७. सर्वं सहमाना गर्ववद्भिर्गीर्यन्ते ।
४.५ एडमूक-वक्तुं श्रोतुं चाशिक्षितः । ४.८.वामहस्ताङ्गलीविदग्धस्यनिरक्षरभट्टाचार्यस्य । ४.९.सामि-अर्धम् । ५.३.भिस्सटाया-दग्धस्योदनस्य । ५.१.उपलहृदयानां-कठिनमनस्कानाम्। ६.३.झम्प४-jump.